विषयौचितीमाह—
न म्लेच्छितव्यमित्यादि । म्लेच्छनमपशब्दः । प्राकृतं संस्कृतभवम् । अभिजातः शुद्धान्वयः ॥
अथ के संस्कृताद्युचितवक्तार इत्यत आह—
देवाद्या इति । आदिग्रहणेन ऋषिभूमिपतिप्रभृतयः ॥
वाच्यौचितीं दर्शयति—
संस्कृतेनैवेति । यथा हि—देवतास्तुत्यादौ संस्कृतं प्रगल्भते न तथा प्राकृतादि । यथा च सूक्ष्मवस्तुस्वरूपोट्टङ्कने प्राकृतस्य सौष्ठवं न तथा संस्कृतादेरित्यादि ॥
पैशाच्येति । द्वित्राभिः कोऽपि काव्यसमस्याभेदस्यार्थः । सर्वाभिः कश्चन प्रकरणादेरर्थः ॥
विषयौचित्यमेव क्वचिद्विशेषे कान्तिप्रकर्षमर्पयन्तीमाह—
नात्यन्तमिति । समानबुद्धिशीलवयसां विनोदार्थमासनबन्धो गोष्ठी ॥ देशौचितीमाह—
श्रृण्वन्तीति । लटभं मनोज्ञम् । स्वेन गुर्जरजातीयेन ॥