उत्तिष्ठन्त्या इति । सर्वाङ्गीणाश्लेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमार्थिन्या निर्भरकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽतिपोषः । अत्र मसृणेऽपि रसे वृत्त्यौचित्येन संदर्भस्य प्रौढिरुचितैव । दीर्घसमासो हि श्रृङ्गारादौ निषिद्धो न तु प्रौढिः । रेफहकारादिवर्णनिवेशात्तु कोमलता संदर्भस्येति । एवमुत्तरोदाहरणेष्वपि विशेषः स्वयमूहनीय इति ॥
सात्त्वती यथा—
सेयं प्रौढार्था नातिप्रौढसंदर्भा सात्त्वती नाम वृत्तिः ॥
मध्यमकैशिकी यथा—
सेयं सुकुमारेऽर्थे प्रौढसंदर्भा मध्यमकैशिकी नाम वृत्तिः ॥
मध्यमारभटी यथा—
सेयं प्रौढेऽर्थे सुकुमारसंदर्भा मध्यमारभटी नाम वृत्तिः ॥
- ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः↩