165 विताध्यवसायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति । उपलक्षणं चैतत् । वर्षाकाले चतुरो मासानित्यपि लोकोक्तिरेव ॥
छेकोक्तिच्छाया यथा—
सेयं तस्मै नृपशवे नम इति विदग्धोक्तेरनुकृतिश्छेकोक्तिच्छाया ॥
यो हीति । कान्तामुखमेव जीवितसर्वस्वमभिमन्यमानस्तत्रालंप्रत्ययशालिनः पशूनिव प्रति शृङ्गारी विदग्धः ॥
अर्भकोक्तिच्छाया यथा—
सेयमव्युत्पन्नशिशुजनोक्तेरनुकृतिरर्भकोक्तिच्छाया ॥
किं स इति । नूनं त्रिजगद्वर्तिसकलार्थिसार्थकीकरणविख्यातकीर्तेः पारिजातप्रमुखस्य कस्यचिदेकः स्तबकः सुधाभिराह्लादयन्नयमवलोके दृश्यत इत्यादि ॥
उन्मत्तोक्तिच्छाया यथा—
सेयमसमञ्जसाया उन्मत्तोक्तेरनुकृतिरुन्मत्तोक्तिच्छाया ॥
दृष्ट इति । कथमित्यादिना तदेकतानतामाविष्कृत्य सहसैवास्तामित्यादिना संप्रहाणम्, कथय तावदित्यादिना च पुनरादानमसमञ्जसम् ॥
पोटोक्तिच्छाया यथा—