अत्र निर्माल्यं, दासः, सनाभि, अञ्चलः, उच्छिष्टमिति पदानां गौणवृत्तिव्यपाश्रयेण मुत्प्रदायिनां साभिप्रायनिवेशादियं पदमुद्रा ॥
गौणवृत्तिव्यपाश्रयेणेति । निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानामतिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो दृश्यते ।
एवम्—
तथा—
इत्यादावर्थान्तरसंक्रमणादिना तत्प्रकाश्यो ध्वनिरनुसंधेयः ॥
वाक्यमुद्रा यथा—
अत्र ‘तत्रास्ति दिव्यः पुमान्’ इत्यादेर्वाक्यान्तरस्य पूर्ववाक्योपकारित्वेन मुत्प्रदायकस्याभिप्रायपूर्वनिवेशादियं वाक्यमुद्रा ॥
यत्स्वच्छ इति । आदित्यकला एव प्रति फलिताश्चन्द्रव्यपदेशं लभन्त इत्यागमः ।
तदाह—
इति ।