167
संगीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात् ॥ ४३ ॥’

अत्र निर्माल्यं, दासः, सनाभि, अञ्चलः, उच्छिष्टमिति पदानां गौणवृत्तिव्यपाश्रयेण मुत्प्रदायिनां साभिप्रायनिवेशादियं पदमुद्रा ॥

गौणवृत्तिव्यपाश्रयेणेति । निर्माल्यादिपदानामत्यन्ततिरस्कृतवाच्यानामतिविच्छायत्वादिलक्षणाद्वारेण लावण्यविशेषध्वननात्सहृदयहृदयावर्जकानां निवेशो दृश्यते ।

एवम्—

‘ताला जाअन्ति गुणा जाला ते सहिँअएहिँ धेय्यन्ति ।
रविकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ॥’

तथा—

‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।’

इत्यादावर्थान्तरसंक्रमणादिना तत्प्रकाश्यो ध्वनिरनुसंधेयः ॥

वाक्यमुद्रा यथा—

‘यत्स्वच्छे सलिलात्मनि प्रतिफलद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्नेति तत्त्वान्तरम् ।
तिग्मं धाम चिरं चकास्ति दिवि यत्तत्रास्ति दिव्यः पुमान्यं विज्ञातवतां त्रुटन्ति निखिला भूयो भवग्रन्थयः ॥ ४४ ॥’

अत्र ‘तत्रास्ति दिव्यः पुमान्’ इत्यादेर्वाक्यान्तरस्य पूर्ववाक्योपकारित्वेन मुत्प्रदायकस्याभिप्रायपूर्वनिवेशादियं वाक्यमुद्रा ॥

यत्स्वच्छ इति । आदित्यकला एव प्रति फलिताश्चन्द्रव्यपदेशं लभन्त इत्यागमः ।

तदाह—

‘सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् ।
दलयन्ति दर्पणोदरविहता इव मन्दिरस्यान्तः ॥’

इति ।