142

विषयौचितीमाह—

न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत् ।
संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् ॥ ८ ॥

न म्लेच्छितव्यमित्यादि । म्लेच्छनमपशब्दः । प्राकृतं संस्कृतभवम् । अभिजातः शुद्धान्वयः ॥

अथ के संस्कृताद्युचितवक्तार इत्यत आह—

देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः ।
पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः ॥ ९ ॥

देवाद्या इति । आदिग्रहणेन ऋषिभूमिपतिप्रभृतयः ॥

वाच्यौचितीं दर्शयति—

संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव वापरः ।
शक्यो रचयितुं कश्चिदपभ्रंशेन जायते ॥ १० ॥

संस्कृतेनैवेति । यथा हि—देवतास्तुत्यादौ संस्कृतं प्रगल्भते न तथा प्राकृतादि । यथा च सूक्ष्मवस्तुस्वरूपोट्टङ्कने प्राकृतस्य सौष्ठवं न तथा संस्कृतादेरित्यादि ॥

पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते ।
द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ॥ ११ ॥

पैशाच्येति । द्वित्राभिः कोऽपि काव्यसमस्याभेदस्यार्थः । सर्वाभिः कश्चन प्रकरणादेरर्थः ॥

विषयौचित्यमेव क्वचिद्विशेषे कान्तिप्रकर्षमर्पयन्तीमाह—

नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् ॥ १२ ॥

नात्यन्तमिति । समानबुद्धिशीलवयसां विनोदार्थमासनबन्धो गोष्ठी ॥ देशौचितीमाह—

शृण्वन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन गुर्जराः ॥ १३ ॥

श्रृण्वन्तीति । लटभं मनोज्ञम् । स्वेन गुर्जरजातीयेन ॥