173

योगेति । योगेत्यादौ द्वन्द्वपरवर्ती परम्पराशब्दः प्रत्येकमन्वीयते । योगो योगरूढिः । कारणं कार्यकारणभावः । निरूढाः प्रमिताः । पदसिद्धये पदसमुदायात्मकवाक्यैकदेशतासिद्धये ॥

यद्यपि पदानामर्थद्वारक एव संबन्धः, तथापि तदौपयिकविशेषः क्वचित्पदेष्वेव साक्षादवसीयते क्वचित्पदार्थेष्वित्यभिप्रेत्याह—

विरुद्धानां पदार्थानां जात्यादीनां परस्परम् ।
योजना येह तां युक्तिं पदार्थविषयां विदुः ॥ ४७ ॥

विरुद्धानामिति । एवं वाक्यवाक्यार्थयोरपि वाक्यमध्यवर्तिप्रकृतरसानुगुणरससमर्पकं वाक्यान्तरम् ॥

गर्भः सह निगर्भेण संवृत्तिः ससमुच्चया ।
हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः ॥ ४८ ॥

गर्भ इति । गर्भस्तस्यैकदेशभूतस्तथाभूतो निगर्भः । उक्तेरुपसंहारवचनं संवृत्तिः । तुल्यप्रधानभावानां युगपदेकार्थसंबन्धः समुच्चयः । आदिपदादन्वाचयादयः ॥

यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ ।
क्रियासमभिहारश्च वाक्यार्थान्युज्यते मिथः ॥ ४९ ॥

यत्तदादेरिति । यत्तदोरुद्देश्यविधेयगामिनोरादिग्रहणादिदमेतदासां क्रियाणामावृत्तिरभ्यासः । विजातीयानामेकदैकत्र संबन्धः समुच्चयः । समभिहारो भृशत्वं प्रकर्ष इति यावत् ॥

यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये ।
वाक्यं सेह प्रकरणविषया युक्तिरिष्यते ॥ ५० ॥

यदिति । अतिमात्रतया प्रतिभासमानत्वमश्रद्धेयता ॥

प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः ।
126उदाहरणमालासां रूपव्यक्त्यै निदर्श्यते ॥ ५१ ॥

तदेतासां युक्तीनामतिदुरूहत्वादाह—उदाहरणमेवेति ॥

  1. ‘उदाहरणमेवासाम्’ इति पाठष्टीकासंमतः