143
ब्रह्मन्विज्ञापयामि त्वां स्वाधिकाराजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ॥ १४ ॥

ब्रह्मन्निति । बह्मन्नित्यादिना निन्दार्थानुवादेन गौडेषु प्राकृतानौचित्यं राजशेखरेण व्यञ्जितम् ॥

समयौचितीं दर्शयति—

केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः ।
काले श्रीसाहसाङ्कस्य के न संस्कृतवादिनः ॥ १५ ॥

केऽभूवन्निति । आढ्यराजः शालिवाहनः । साहसाङ्को विक्रमादित्यः । ग्रन्थकृत्पूर्वजतया श्रीपदम् ॥

ता इमाः परस्परसंकीर्णाः षडेव संस्कृतादिभाषा भवन्तीति सामान्यविभागमेतद्विरचनप्रयोजनं चोपसंहरति—

गिरः श्रव्या दिव्याः प्रकृतमधुराः प्राकृतधुराः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम् ।
विदग्धानामिष्टे मगधमथुरावासिभणिति- र्निबद्धा यस्तेषां स इह कविराजो विजयते ॥ १६ ॥

गिर इति । दिव्याः संस्कृताः । भूतवचनं पैशाचम् । मथुरावासिभणितिः शौरसेनी । तेषामिति । तच्च भूतवचनं स चापभ्रंशस्ताश्च दिव्याद्या इति ‘नपुंसकमनपुंसकेन’ इत्येकशेषः । पाक्षिकं बहुवचनम् । प्रतिभार्थप्राणानां जीवद्वर्णनानिपुणो हि कविः, स एव हि सर्वपथीनतादृगुक्तिसिद्धिसंपन्नः कविराजः, अत एव विजयते सकललोकशास्त्रवचननिर्मातृभ्यः प्रकर्षेण वर्तत इति ॥

संस्कृतादिषु यथायोगं शुद्धादिभेदेन जातिः षोढा भिद्यत इत्याह—

शुद्धा साधारणी मिश्रा संकीर्णा नान्यगामिनी ।
अपभ्रष्टेति साचार्यैर्जातिः षोढा निगद्यते ॥ १७ ॥

शुद्धा साधारणीति । इह भाषारूपविषयभेदेन भिन्नाः संस्कारा यानधिकृत्य पाणिनि-वररुचि-प्रभृतीनामनुशासनानि व्यवतिष्टन्ते । तद्यत्रैक एव संस्कारः प्रत्यभिज्ञायते सा शुद्धा । संस्कारान्तराग्रहणात् । यत्र तु लक्षणसंभेदेन नानासंस्कारसंपातः क्षीरनीरवत्सा साधारणी । रूपसाधारण्यान्नरसिंहवद्भाषाभेदव्य-