180 गत्या शठे संभाव्यमानमाश्चर्यमुन्मुद्रयत्सामान्यपरम्परया प्रेमाविष्टमन्तःकरणमावेदयति । यदि ज्योतिरादेस्तमःप्रभृतीनामुद्गमः स्यादपि प्रियादप्रियमिति सर्वथैव निषेधे विधातव्ये प्रत्यक्षपरिकल्पितस्यान्यथाकर्तुमशक्यत्वात्प्रमेयविरोधमसहमाना विधत्ते च निषेधति चेति निषेधविधिप्रसङ्गे विधिनिषेधरूपा भणितिर्भवति ॥

कल्पनाभणितिर्यथा—

‘दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च ।
सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवः स्वदते ॥ ६४ ॥’

अत्र वयोरामणीयकातिशयस्य दृक्सहस्रादिभिरेवावलोकनीयत्वादियोग्यताकल्पनादियं कल्पनाभणितिर्विधिनिषेधे निषेधविधिरूपा ॥

दृश्यमिति । यद्यपि द्वाभ्यामेकेनाल्पीयसा च नेत्राभ्यां मनसा सुकृतेन च वयसो यौवनस्य दृश्यत्वविभावनीयत्वभोग्यत्वानि प्रतीतिमुखमवतीर्णानि, तथापिजीवितसर्वस्वभूतायामितरकामिनीसाधारण्यामितरसाधारण्यमसहमानो दृगादिसामान्ये सहस्रत्वादिकं कल्पयन्साधारणधर्मनिषेधसरणिमारुह्य विशेषं विधत्ते । सेयं भणितिर्विधिनिषेधप्रसङ्गे निषेधघटकद्वारा विधिरूपा भवतीत्यास्तां विस्तरः ॥

वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता ।
शब्दार्थक्रमपर्यायपदवाक्यकृता च सा ॥ ५३ ॥

वाक्य इति । एकार्थप्रतिपादनावच्छिन्नः शब्दसमुदायो वाक्यम्, तस्मिन्विषयभूते आनुपूर्व्येण ग्रन्थनं रचना, सा कथमतिप्रसक्ताप्यलंकार इत्यत आह—सम्यगिति । प्रकृतपरिपोषाधानलक्षणमौचित्यमापन्नेत्यर्थः । वाक्यत्वमर्थशब्दाभ्यां विशेषणविशेष्याभ्यां व्यवतिष्ठते । तेन द्वयोरेव गुम्फना समाप्यत इत्याशयेन शव्दार्थयोरित्युक्तम् । तत्र शब्दो द्विविधः—वाच्यः, उपाधिश्च । प्रतिपादकशब्दो द्विरूपः पदवाक्यभेदात् । पदं द्विधा—पर्यायभूतरूपम्, अतथारूपं च । तदेतद्विवक्षावैचित्र्यमङ्गीकृत्य विभजते—शब्द इति । अप्रतिपादकः शब्दः शब्दपदेनोक्तः । अर्थो वाच्यः । क्रमग्रहणमुपाध्युपलक्षणम् ॥

तासु शब्दकृता यथा—

‘रामाभिषेके मदविह्वलायाः कराच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य चकार शब्दं ठंठंठठंठंठठठंठठंठः ॥ ६५ ॥’