364
कुष्ठं त्रिवृत्तिलादन्तीमागध्यः सैन्धवं मधु ॥
रजनी त्रिफला तुत्थं हितं व्रणविशोधनम् ॥ ८ ॥
स्नुह्यर्कदुग्धदार्वीभिर्वर्तिं कृत्वा विचक्षणः ॥
भगंदरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः ॥
एषा सर्वशरीरस्थां नाडीं हन्यान्न संशयः ॥ ९ ॥
तिलाभयाकुष्ठमरिष्टपत्रं निशे वचा लोध्रमगारधूमः ॥
भगंदरे नाड्युपदंशयोश्च दुष्टव्रणे शोधनरोपणोऽयम् ॥ १० ॥
त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम् ॥
भगंदरं निहन्त्याशु दुष्टव्रणहरं परम् ॥ ११ ॥
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता गुटिका ॥
कुष्ठभगंदरनाडीदुष्टव्रणशोधिनी कथिता ॥ १२ ॥
जम्बूकमांसं भक्षेत प्रकारैर्व्यञ्जनादिभिः ॥
अजीर्णवर्जी मासेन मुच्यते तु भगंदरात् ॥ १३ ॥
पञ्चतिक्तं घृतं शस्तं तथा गुग्गुलुपूर्वकम् ॥ १४ ॥
चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ ॥
सुधां वचां लाङ्गलकीं हरितालं सुवर्चिकाम् ॥ १५ ॥
ज्योतिष्मतीं च संक्षुण्णां तैलं धीरो विपाचयेत् ॥
एतद्विष्यन्दनं नाम तैलं दद्याद्भगंदरे ॥
शोधनं रोपणं चैव सवर्णकरणं परम् ॥ १६ ॥