389
ऊर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत् ॥
तिक्तभूयिष्ठमाहारं पानं चापि प्रकल्पयेत् ॥ ३ ॥
यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः ॥
यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत् ॥ ४ ॥
निस्तुषयववृषधात्रीक्वाथस्त्रिसुगन्धमधुयुतः पीतः ॥
अपनयति चाम्लपित्तं यदि भुङ्क्ते मुद्गयूषेण ॥ ५ ॥
कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ॥
पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः ॥ ६ ॥
पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ॥
कण्डूपामातिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥ ७ ॥
पटोलनिम्बामृतरोहिणीकृतं जलं पिबेत्पित्तकफोच्छ्रये वा ॥
शूलभ्रमारोचकवह्निमान्द्यदाहज्वरच्छर्दिनिवारणं हि तत् ॥ ८ ॥
यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ॥
नाशयेदम्लपित्तं च अरुचिं च वमिं तथा ॥ ९ ॥
वासामृतापर्पटकनिम्बभूनिम्बमार्कवैः ॥
त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥ १० ॥