Adhikāra 65

501
मधुकं शाकबीजं च पयस्या सुरदारु च ॥
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी ॥ १ ॥
वृक्षादनी पयस्या च तथैवोत्पलसारिवा ॥
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ॥ २ ॥
बृहतीद्वयकाश्मर्यक्षीरिशुङ्गास्त्वचो घृतम् ॥
पृथक्पर्णी बलाशिग्रुश्वदंष्ट्रामधुयष्टिकम् ॥ ३ ॥
शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता ॥
मासेषु सप्त योगाः स्युरर्धश्लोकास्तु सप्तसु ॥
यथाक्रमं प्रयोक्तव्या गर्भस्रावे पयोयुताः ॥ ४ ॥
502
कपित्थबिल्वबृहतीपटोलीक्षुनिदिग्धिकाः ॥
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ॥ ५ ॥
नवमे मधुकानन्तापयस्यासारिवाः पिबेत् ॥
पयस्तु दशमे शुण्ट्याः शृतशीतं प्रशस्यते ॥ ६ ॥
सक्षीरा वा हिता शुण्ठी मधुकं देवदारु च ॥
एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ॥ ७ ॥
समधुच्छागदुग्धेनकुलालकरकर्दमः ॥
अवश्यं स्थापयेद्गर्भं चलितं पानयोगतः ॥ ८ ॥
कुशकाशोरुबूकाणां मूलैर्गोक्षुरकस्य च ॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ ९ ॥
कसेरुशृङ्गाटकजीवनीर्यैः पद्मोत्पलैरण्डशतावरीभिः ॥
सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम् ॥ १० ॥
कसेरुशृङ्गाटकपद्मकोत्पलं समुद्गयष्टीमधुकं सशर्करम् ॥
सशूलगर्भस्रुतिपीडिताङ्गना पयोविमिश्रं पयसाऽन्नभुक्पिबेत् ॥ ११ ॥
503
पाठासुरससिंहास्यमयूरकुटजैः पृथक् ॥
नाभिबस्तिभगालेपात्सुखं नारी प्रसूयते ॥ १२ ॥
परूषकशिफालेपः स्थिरामूलकृतोऽथवा ॥
नाभिबस्तिभगाद्येषु मूढगर्भापकर्षणः ॥ १३ ॥
मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम् ॥
घृतेन सह पातव्यं सुखं नारी प्रसूयते ॥ १४ ॥
इन्द्रोऽमृतं च सोमश्च चित्रभानुश्च भामिनि ॥
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ॥ १५ ॥
इदममृतमपां समुद्धृतं वै तव लघु गर्भामिमं विमुञ्चतु स्त्रि ॥
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ १६ ॥
मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः ॥
मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिरं स्वाहा ॥ १७ ॥
जलं च्यावनमन्त्रेण सप्तवाराभिमन्त्रितम् ॥
पीत्वा प्रसूयते नारी दृष्ट्वा चोभयत्रिंशकम् ॥ १८ ॥
504
नाड्यृतुवसुभिः पक्षदिगष्टादशभिरेव च ॥
अर्कभुवनाब्धिसहितैरुभयत्रिंशकमाश्चर्यम् ॥ १९ ॥
कटुतुम्ब्यहिनिर्मोककृतवेधनसर्षपैः ॥
कटुतैलान्वितैर्योनिधूपः पातयतेऽपराम् ॥ २० ॥
कचवेष्टितयाऽङ्गुल्या घृष्टे कण्ठे सुखं पतत्यपरा ॥
मूलेन लाङ्गलिक्याः संलिप्ते पाणिपादे वा ॥ २१ ॥
उपकुञ्चिकां पिप्पलीं च मदिरां लाभतः पिबेत् ॥
सौवर्चलेन संयुक्तां योनिशूलनिवारिणीम् ॥ २२ ॥
सूताया हृच्छिरोबस्तिशूलं मक्कल्लसंज्ञितम् ॥
यवक्षारं पिबेत्तत्र सर्पिषोष्णोदकेन वा ॥ २३ ॥
पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥ २४ ॥
पारावतशकृत्पीतं शालितण्डुलवारिणा ॥
गर्भपातानन्तरोत्थरक्तस्रावनिवारणम् ॥ २५ ॥
अमृतानागरसहचरभद्रेत्कटपञ्चमूलजलदजलम् ॥
शृतशीतं मधुयुक्तं निवारयति सूतिकातङ्कम् ॥ २६ ॥
505
सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थसमम् ॥
जलमन्त्रससैन्धवहिङ्गुयुतं सद्यो ज्वरसूतिकाशूलहरम् ॥ २७ ॥
दशमूलीरसः पूतः सद्यः सूतीरुजापहः ॥
पञ्चमूलस्य वा क्वाथं तप्तलोहेन संयुतम् ॥
सूतिकारोगनाशाय पिबेद्वा तद्धितां सुराम् ॥ २८ ॥
पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यवानिका ॥
जीरके द्वे हरिद्रे द्वे बिडं सौवर्चलं तथा ॥ २९ ॥
एतैरेवौषधैः पिष्टैरारनालं विपाचयेत् ॥
आमवातहरं वृष्यं कफग्नं वह्निदीपनम् ॥ ३० ॥
काञ्जिकं वज्रकं नाम स्त्रीणां बलविवर्धनम् ॥
मक्कल्लशूलशमनं परं क्षीराभिवर्धनम् ॥ ३१ ॥
वनकर्पासिकेक्षूणां मूलं सौवीरकेण वा ॥ ३२ ॥
विदारिकन्दं सुरया पिवेद्वा स्तन्यवर्धनम् ॥
हरिद्रादिं वचादिं वा पिबेत्स्तन्यविशुद्धये ॥ ३३ ॥
तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥
पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम् ॥
धात्री कुमारश्च पिबेत्क्वाथयित्वा ससारिवम् ॥ ३४ ॥
शोफं स्तनोत्थितमवेक्ष्य भिषग्विदध्या-
द्यद्विद्रधावभिहितं बहुधा विधानम् ॥
506
आमे विदह्यति तथैव गते च पाकं
तस्याः स्तनौ सततमेव हि निर्दुहीत ॥ ३५ ॥
विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम् ॥ ३६ ॥