Adhikāra 13

164
आद्यो कोष्णजलं पेयं जग्ध्वा घृतगुडौदनम् ॥
क्षीरानुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रितः ॥ १ ॥
पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम् ॥
पिबेन्मूत्रेण मतिमान्कफजे स्वरसंक्षये ॥
स्वरोपघाते मेदोत्थे कफवद्विधिरिष्यते ॥ २ ॥
165
क्षयजे सर्वजे वाऽपि प्रत्याख्यायाऽऽचरेत्क्रियाम् ॥ ३ ॥
चव्याम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः ॥
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ ४ ॥
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ॥
स्वरोपघाते कासे च लेहमेनं प्रयोजयेत् ॥ ५ ॥
शर्करामधुमिश्राणि शृतानि मधुरैः सह ॥
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥ ६ ॥
व्याघ्रीस्वरसविपक्वं रास्नावाट्यालगोक्षुरव्योषैः ॥
सर्पिः स्वरोपघातं हन्यात्कासं च पञ्चविधम् ॥ ७ ॥
शुष्कद्रव्यमुपादाय स्वरसानामसंभवे ॥
उदकेऽष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥ ८ ॥