166
वान्तो वचाद्भिरनिले विधिवत्पिबेच्च स्नेहोष्णतोयमदिरान्यतमेन चूर्णम् ॥
कृष्णाविडङ्गयवभस्महरेणुभार्ङ्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम् ॥ १ ॥
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं लेहः ससैन्धवसितामधुसर्पिरिष्टः ॥
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना सह दीप्यकाढ्यम् ॥