Adhikāra 17

सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च ॥
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्छास्वनिवारितानि ॥ १ ॥
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च ॥
तथा यवा लोहितशालयश्च मूर्छासु शस्ताः ससतीनमुद्गाः ॥ २ ॥
180
यथादोषं कषायाणि ज्वरघ्नानि प्रयोजयेत् ॥
रक्तजायां तु मूर्छायां हितः शीतक्रियाविधिः ॥ ३ ॥
मद्यजायां वमेन्मद्यं निद्रां सेवेद्यथासुखम् ॥
विषजायां विषघ्नानि भेषजानि प्रयोजयेत् ॥ ४ ॥
कोलमज्जोषणोशीरकेसरं शीतवारिणा ॥
पित्तमूर्छां जयेल्लीढा कृष्णा वा मधुसंयुता ॥ ५ ॥
महौषधामृता क्षुद्रा पौष्करं ग्रन्थिकोद्भवम् ॥
पिबेत्कणायुतं क्वाथं मूर्छायां च मदेषु च ॥ ६ ॥
पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये ॥
त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥
रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते ॥ ७ ॥
अञ्जनान्यवपीडाश्च धूमः प्रधमनानि च ॥
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ॥ ८ ॥
181
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च ॥
आत्मगुप्तावघर्षश्च हितस्तस्यावबोधने ॥ ९ ॥