229
शतावरी नागबला वृद्धदारकमुच्चटा ॥ ५६ ॥
पुनर्नवाऽमृता कृष्णा वाजिगन्धा त्रिकण्टकम् ॥
पृथग्दश पलान्येषां श्लक्ष्णचूर्णानि कारयेत् ॥ ५७ ॥
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद्बुधः ॥
स्थापयेत्सुदृढे भाण्डे मध्वर्धाढकसंयुतम् ॥ ५८ ॥
घृतप्रस्थेन चाऽऽलोड्य त्रिसुगन्धिपलेन च ॥
तं खादेदिष्टचेष्टान्नो यथावह्निबलं नरः ॥ ५९ ॥
वातरक्तं क्षयं कुष्ठं कासं पित्तसमुद्भवम् ॥
वातपित्तकफोत्थांश्च रोगानन्यांश्च तद्विधान् ॥ ६० ॥
हत्वा करोति पुरुषं वलीपलितवर्जितम् ॥
योगसारामृतो नाम लक्ष्मीकान्तिविवर्धनः ॥ ६१ ॥
दिवास्वप्नादि संतापं व्यायामं मैथुनं तथा ॥
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत् ॥ ६२ ॥