Adhikāra 34

285
वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम् ॥
यवक्षारगुडं दत्त्वा क्वाथयित्वा पिबेद्धिताम् ॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ॥ १ ॥
286
वीरतरादिरित्येष गणो वातविकारनुत् ॥
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥ २ ॥
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ॥ ३ ॥
अभयारग्वधफलैः क्वाथं कुर्याद्विचक्षणः ॥
रामठक्षारलवणचूर्णं दत्त्वा पिबेन्नरः ॥ ४ ॥
अश्मरीमूत्रकृच्छ्रघ्नं दीपनं पाचनं परम् ॥
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥ ५ ॥
पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा ॥
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ६ ॥
कपोतवङ्कार्तगलकाञ्चनोशीरगुच्छकाः ॥
वृक्षादनी भल्लकश्च वरुणः शाकजं फलम् ॥ ७ ॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ॥
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम् ॥
भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव च ॥ ८ ॥
287
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः ॥
अश्मरीशर्करामूत्रशूलघ्नः कफगुल्मनुत् ॥ ९ ॥
क्षारान्यवागूं पेयां च कषायाणि पयांसि च ॥
भोजनानि च कुर्वीत वर्गेऽस्मिन्वातनाशने ॥ १० ॥
काशः कुशः शरो गुच्छ इत्कटो मोरटोऽश्मभित् ॥ ११ ॥
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥
भल्लूकः पाटली पाठा पत्तरोऽथ कुरण्टिका ॥ १२ ॥
पुनर्नवा शिरीषश्च क्वथितास्तेन साधितम् ॥
घृतं शिलाह्वमधुकबीजैरिन्दीवरस्य च ॥ १३ ॥
288
त्रपुसेर्वारुकादीनां बीजैश्चाऽऽवापितं शुभम् ॥
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च ॥ १४ ॥
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ॥
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने ॥ १५ ॥
कुर्यात्क्षारादिकं क्वाथ्यैस्तस्मिन्क्षेपमवापकैः ॥
वर्गत्वेन यथालाभं परिभाषा प्रवर्तते ॥ १६ ॥
शिलाजतु शिलाह्वं स्यात्पुण्ड्रको गुन्द्रगुच्छकौ ॥
मधुकः कृतह्वस्वत्वाद्बीजैर्बीजक उच्यते ॥ १७ ॥
गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः ॥
कुष्ठमुस्ताह्वमरिचचित्रकैः ससुराह्वयैः ॥ १८ ॥
एतैः सिद्धमजासर्पिरूषकादिगणेन च ॥
भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव च ॥ १९ ॥
289
क्षारान्यवागूं पेयां च कषायाणि पयांसि च ॥
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्कफनाशने ॥ २० ॥
वरुणादिगणो ह्येष कफमेदोनिवारणः ॥
विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् ॥ २१ ॥
शुक्राश्मर्यां तु सामान्यो विधिरश्मरिनाशनः ॥
यवक्षारगुडोन्मिश्रं पिबेत्पुष्पफलोद्भवम् ॥
रसं मूत्रविबन्धघ्नं शर्कराश्मरिनाशनम् ॥ २२ ॥
नागरवरुणकगोक्षुरपाषाणभेदकपोतवङ्कजः क्वाथः ॥
गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम् ॥ २३ ॥
वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ॥
कषायः क्षारसंयुक्तः शर्करां च भिनत्त्यपि ॥ २४ ॥
290
पिबेद्वरुणमूलत्वक्क्वाथं तत्कल्कसंयुतम् ॥
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिपातनः ॥ २५ ॥
पिबेद्वरुणमूलत्वक्कषायं गुडसंयुतम् ॥
अश्मरीं पातयत्याशु बस्तिशूलविनाशनम् ॥ २६ ॥
एलोपकुल्यामधुकाश्ममेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ॥
शृतं पिबेदश्मजतु प्रगाढं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ २७ ॥
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ॥
अविक्षीरेण सप्ताहं पेयमश्मरिभेदकम् ॥ २८ ॥
कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम् ॥
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ॥ २९ ॥
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रे मूत्राभिघातं च समूत्रबन्धम् ॥
एतानि सर्वाणि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ॥ ३० ॥
शरादिपञ्चमूल्या वा कषायेण पचेद्घृतम् ॥
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम् ॥
अश्मरीमूत्रकृच्छ्रघ्नं रेतोमार्गविशोधनम् ॥ ३१ ॥
वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत् ॥
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
वरुणः कदली बिल्वं तृणजं पञ्चमूलकम् ॥
अमृतां चाश्मजं देयं बीजं च त्रपुषस्य च ॥ ३३ ॥
शतपर्वा तिलक्षारः पलाशक्षारमेव च ॥
यूथिकायास्तु मूलानि कार्षिकाणि समावपेत् ॥ ३४ ॥
291
अक्षमात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ॥
जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णं तु मस्तुना ॥ ३५ ॥
अश्मरीं शर्करां चैव मूत्रकृच्छ्रं विनाशयेत् ॥
सैन्धवाद्यं च यत्तैलमृषिभिः परिकीर्तितम् ॥ ३६ ॥
तत्तैलं द्विगुणक्षीरं पचेद्वीरतरादिना ॥
क्वाथेन पूर्वकल्केन साधितं तु भिषग्वरैः ॥ ३७ ॥
एतत्तैलवरं श्रेष्ठमश्मरीणां विनाशनम् ॥
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा ॥ ३८ ॥
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥
वर्ध्माधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते ॥ ३९ ॥