Adhikāra 2

पृथगुक्तनिदानेन ज्वरातीसारनिर्णयः ॥
कर्तव्यो भिषजा चात्र तत्क्रमेण विधिर्यतः ॥ १ ॥
65
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक् ॥
न तन्मिलितयोः कार्यमन्योन्यं वर्धयेद्यतः ॥ २ ॥
अतस्तौ प्रतिकुर्वीत विशेषोदितभेषजैः ॥
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु ॥
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ॥ ३ ॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ॥
ज्वरातिसारी पेयां वा पिबेत्साम्लां शृतां नरः ॥ ४ ॥
नागरातिविषामुस्ताभूनिम्बामृतवत्सकैः ॥
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः ॥ ५ ॥
पाठेन्द्रयवभूनिम्बमुस्तापर्पटकामृताः ॥
जयन्त्याममतीसारं ज्वरं च समहौषधाः ॥ ६ ॥
ह्रीवेरातिविषामुस्ताबिल्वनागरधान्यकम् ॥ ७ ॥
पिबेत्पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ॥
सरक्तं हन्त्यतीसारं सज्वरं वाऽथ विज्वरम् ॥ ८ ॥
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दवालकैः ॥
पाठाभूनिम्बकुटजैश्चन्दनोशीरपद्मकैः ॥ ९ ॥
66
कषायः शीतलः पेयो ज्वरातीसारशान्तये ॥
हृल्लासारोचकच्छर्दिःपिपासादाहनाशनः ॥ १० ॥
कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ॥
ज्वरातीसारसंतापं नाशयेदविकल्पतः ॥ ११ ॥
वत्सकस्य फलं दारु रोहिणी गजपिप्पली ॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥ १२ ॥
द्वावप्येतौ सिद्धयोगौ श्लोकार्धेनाभिभाषितौ ॥
ज्वरातिसारशमनौ विशेषाद्दाहनाशनौ ॥ १३ ॥
पञ्चमूलीबलाविल्बगुडूचीमुस्तनागरैः ॥
पाठाभूनिम्बह्रीवेरकुटजत्वक्पलैः शृतम् ॥ १४ ॥
हन्ति सर्वानतीसाराञ्ज्वरदोषं वमिं तथा ॥
सशूलोपद्रवं श्वासं कासं हन्यात्सुदुस्तरम् ॥ १५ ॥
पञ्चमूलीति सामान्याद्योज्या पित्ते कनीयसी ॥
महती पञ्चमूली तु वातश्लेष्माधिके हिता ॥ १६ ॥
उत्पलं दाडिमत्वक्च पद्मकेसरमेव च ॥
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥ १७ ॥
उशीरं वालकं मुस्तं धान्यकं बिल्वमेव च ॥
समङ्गा धातकी रोध्रं विश्वं पाचनदीपनम् ॥ १८ ॥
67
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ॥
सशोणितमतीसारं सज्वरं वाऽथ विज्वरम् ॥ १९ ॥
दशमूलीकषायेण विश्वमक्षसमं पिबेत् ॥
ज्वरे चैवातिसारे च सशोफे ग्रहणीगदे ॥ २० ॥
विडङ्गाऽतिविषा मुस्तं दारु पाठा कलिङ्गकम् ॥
मरिचेन समायुक्तं शोफातीसारनाशनम् ॥ २१ ॥
गुडूचीचित्रबिल्वाब्दरक्तचन्दनवालकैः ॥
कलिङ्गैकसमायुक्तैर्ज्वरातीसारशोफनुत् ॥ २२ ॥
किराताब्दामृतानिम्बचन्दनोदीच्यवत्सकैः ॥
शोषातीसारशमनं विशेषाज्ज्वरनाशनम् ॥ २३ ॥
सिताञ्जनकणालाजमधुकं नीलमुत्पलम् ॥
पित्तज्वरातिसारघ्नं प्रलीढं मधुना सह ॥ २४ ॥