Adhikāra 47

नाडीनां गतिमन्विष्य शस्त्रेणाऽऽपाट्य कर्मवित् ॥
सर्वं व्रणक्रमं कुर्याच्छोधनं रोपणादिकम् ॥ १ ॥
नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक् ॥
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ॥ २ ॥
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः ॥
श्लैष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ॥ ३ ॥
360
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ॥
आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता ॥
सूत्रवर्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥ ४ ॥
घोण्टाफलत्वङ्मदनात्फलानि पूगस्य च त्वग्लवणं च मुख्यम् ॥
स्रुह्यर्कदुग्धेन सहैष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ ५ ॥
वर्तीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ॥
दुष्टव्रणे यद्विहितं च तैलं तत्सेव्यमानं गतिमाशु हन्ति ॥ ६ ॥
जात्यर्कशम्याककरञ्जदन्तीसिन्धूत्थसौवर्चलयावशूकैः ॥
वर्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा सह चित्रकेण ॥ ७ ॥
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या ॥
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ॥ ८ ॥
एषिण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ॥ ९ ॥
सूचीं निदध्याद्यत्नेन तथोन्नम्याऽऽशु निर्हरेत् ॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् ॥ १० ॥
361
ततः क्षारबलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत् ॥
क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः ॥
भगंदरेऽप्येष विधिः कार्यो वैद्येन जानता ॥ ११ ॥
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् ॥ १२ ॥
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः ॥
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्ब्रणम् ॥ १३ ॥
गुग्गुलुस्त्रिफलाव्योषैः समांशैराज्ययोजितः ॥
नाडीदुष्टव्रणहरो भगंदरविनाशनः ॥ १४ ॥
स्वर्जिकासिन्धुदन्त्यग्निरूयिकानलनीलिकाः ॥
खरमञ्जरिबीजेषु तैलं गोमूत्रपाचितम् ॥
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥ १५ ॥
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गम् ॥
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियंगूः ॥ १६ ॥
सौगन्धिकामोचरसाहिपुष्पचूर्णानि दत्त्वा खलु धातकीं च ॥
एतेन शल्यप्रभवा हि नाडी रोहेद्व्रणो वै सुखमाशु चैव ॥ १७ ॥
362
भल्लातकार्कमरिचैर्लवणोत्तमेन
सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ॥
स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च ॥ १८ ॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ॥
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥ १९ ॥
हितं पामापचीनां च पानाभ्यञ्जननावनैः ॥
विविधेषु च स्फोटेषु तथा दुष्टव्रणेषु च ॥ २० ॥
या द्विव्रणीये विहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात् ॥ २१ ॥