पीडाहेतुमदृष्टं च किमर्थं स व्यपेक्षते ।

उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६० ॥

भवतु नाम तस्यादृष्टापेक्षा । तथाऽपि यददृष्टं धर्माधर्मात्मकं पीडाहेतुस्तदपेक्षा
कृपालोर्न युक्ता, किन्त्ववधीरणमेव तत्र तस्य कृपापरतन्त्रतया युक्तं कर्तुम् । न हि
कृपालवः परदुःखहेतुमेवान्विच्छन्ति, तेषां परदुःखवियोगेच्छयैव प्रवृत्तेः ॥ १६० ॥