क्रीडासाध्या च या प्रीतिस्तस्या यदपि साधनम् ।

तत्सर्वं युगपत्कुर्याद्यदि तत्कृतिशक्तिमान् ॥ १६२ ॥

क्रमेणापि न शक्तः स्यान्नो चेदादौ स शक्तिमान् ।

नाविभक्तस्य युज्येते शक्त्यशक्ती हि वस्तुनः ॥ १६३ ॥

किं च ये ते विचित्राः क्रीडनोपायाः, तत्कारणे यदि शक्तिरस्यास्ति तदा युगपदेव
कुर्यात् । अथादौ तस्य न शक्तिस्तदा क्रमेणापि न कुर्यात् । अशक्तावस्थाया अवि
शिष्टत्वात् । न ह्येकस्यैकत्र वस्तुनि शक्तत्वमशक्तत्वं च परस्परविरुद्धं धर्मद्वयं युक्तम् ।
078 किमर्थं च व्यापारमीदृशमारभत इत्यादि सर्वो विकल्प ईश्वरेऽपि साधारणः । तेन—
यदाह प्रशस्तमतिः परानुग्रहार्थमीश्वरः प्रवर्त्तते । यथा कृतार्थः कश्चिन्मुनिरात्म
हिताहितप्राप्तिपरिहारार्थासंभवेऽपि परहितार्थमुपदेशं करोति । तथेश्वरोप्यात्मीयामै
श्वर्यविभूतिं विख्याप्य प्राणिनोऽनुग्रहीष्यन्प्रवर्त्तत इति । अथ वा शक्तिस्वाभाव्यात्,
यथा कालस्य, वसन्तादीनां पर्यायेणाभिव्यक्तौ स्थावरजङ्गमविकारोत्पत्तिः स्वभावतः ।
तथेश्वरस्याप्याविर्भावानुग्रहसंहारशक्तीनां पर्यायेणाभिव्यक्तौ प्राणिनामुत्पत्तिस्थितिप्रल
यहेतुकत्व
मिति । तदप्यनेनैव प्रतिविहितम् । तथा हि—परानुग्रहार्थं प्रवर्त्तत इत्य
त्रेदमेव प्रतिविधानम् । अनुग्रहः परंपरः कुर्यादेकान्तसुखितं जगदित्यादि । शक्तिस्वाभा
व्यादित्यत्रापीदमेव दूषणम् । सर्गस्थित्युपसंहारान्युगपद्व्यक्तशक्तिकः । युगपज्जगतः
कुर्यान्नो चेत्सोऽव्यक्तशक्तिकः ॥ न व्यक्तशक्तिरीशोऽयं क्रमेणाप्युपपद्यते । व्यक्तश
क्तिरतोऽन्यश्चेद्भावो ह्येकः कभं भवेत् ॥ इति । कालस्यापि वसन्ताद्यभिव्यक्तौ पर्या
येण प्रवृत्तावयमेव दोषः । शीतोष्णान्वयभेदभाजस्तु भावा एव हि प्रतिक्षणविना
शिनः काल इत्येतत्पश्चात्प्रतिपादयिष्यते ॥ १६२ ॥ १६३ ॥