वात्सीपुत्रीयात्मपरीक्षा ।

वात्सीपुत्रीयपरिकल्पितपुद्गलप्रतिषेधार्थमाह—केचित्त्वित्यादि ।


केचित्तु सौगतम्मन्या अप्यात्मानं प्रचक्षते ।

पुद्गलव्यपदेशेन तत्त्वान्यत्वादिवर्जितम् ॥ ३३६ ॥

केचिदिति । वात्सीपुत्रीयाः । ते हि सुगतसुतमात्मानं मन्यमाना अपि पुद्गलव्या
जेन स्कन्धेभ्यस्तत्त्वान्यत्वाभ्यामवाच्यमात्मानं कल्पयन्ति । ये हि नाम भगवतो
नैरात्म्यवादिनस्सुगतस्य सुतत्वमभ्युपगतास्ते कथमिव वितथात्मदृष्टिमभिनिविष्टा
स्स्युरिति दर्शयन्नुपहासपदमाह—सौगतम्मन्या अपीति । तथाहीदमात्मनो लक्ष
णम्—यो हि शुभाशुभकर्मभेदानां कर्त्ता स्वकृतकर्मफलस्य चेष्टानिष्टस्य च भोक्ता यश्च
पूर्वस्कन्धपरित्यागादपरस्कन्धान्तरोपादानात्संसरति भोक्ता च स आत्मेति । एतच्च
सर्वं पुद्गलेऽपीष्टमिति केवलं नाम्नि विवादः ॥ ३३६ ॥