127
अतद्भावनिषेधश्च तत्त्वमेवाभिधीयते ।

नातिक्रामति तद्वस्तु तत्त्वं भेदं च वस्तुनः ॥ ३४२ ॥

वस्त्वेव हि भेदाभेदविकल्पयोरधिष्ठानम्, नावस्तु । तेन तत्त्वान्यत्वाद्यनिर्देशो
निःस्वभावेष्वेव—स्वभावविरहितेष्वेव युज्यते । न वस्तुनि तत्त्वान्यत्वाद्यनिर्देशो युज्यत
इति संबन्धः । तत्र भेदाभेदाभ्यां गत्यन्तराभावात् । कथं पुनर्गत्यन्तराभाव इत्याह—
यदेतद्धीत्यादि । तथा हि—रूपादिस्वभावः पुद्गलो न भवतीति यदेतत्तन्निषेधनम्,
तत्तस्माद्रूपादेः सकाशादन्यत्वमेवाभिधीयते । स्वभावान्तरविधिनान्तरीयकत्वाद्वस्तुनो
वस्त्वन्तरभावनिषेधस्य । प्रयोगः—यद्वस्तुयत्स्वभावविरहितं तत्ततोऽन्यत्, यथा
रूपं वेदनातः, रूपादिस्वभावविरहि च पुद्गलाख्यं वस्तु, इति स्वभावहेतुः । यश्चायं
वस्तुनोऽतद्भावनिषेधः—अतद्रूपनिषेधः स तत्त्वमव्यतिरेक एवाभिधीयते । तत्त्व
विधिनान्तरीयकत्वाद्वस्तुसतोऽर्थान्तरभावनिषेधस्य । अन्यथा हि यदि तस्य न
कश्चित्स्वभावो विधीयते तदा सर्वस्वभावनिषेधादवस्तुत्वमेव स्यात् । सर्वस्वभावनिषे
धलक्षणत्वादवस्तुत्वस्येति । प्रयोगः—यद्वस्तु यतोऽर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वं
तत्तदेव, यथा रूपं स्वस्वभावादर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वम् । प्रतिषिद्धात्मतत्त्वश्च
रूपादिभ्योऽर्थान्तरत्वेन पुद्गल इति स्वभावहेतुः । तत्तस्माद्वस्तुनः सकाशात्तत्त्वान्यत्वे
वस्तु नातिक्रामतीति सिद्धा व्याप्तिर्मौलस्य हेतोः ॥ ३४० ॥ ३४१ ॥ ३४२ ॥


एवं तावदवाच्यत्वाभ्युपगमे प्रज्ञप्तिसत्वं पुद्गलस्य प्राप्तमिति प्रतिपादितम् ।
इदानीं वस्तुत्वाभ्युपगमे वा पुद्गलस्यावाच्यत्वमयुक्तमन्यथा स्ववचनविरोधः प्रति
ज्ञायाः स्यादिति मन्यमानो निगमयति—स्कन्धेभ्य इत्यादि ।


स्कन्धेभ्यः पुद्गलो नान्य इत्येषाऽनन्यसूचना ।

स्कन्धो न पुद्गलश्चेति व्यक्ता तस्येयमन्यता ॥ ४४३ ॥

अपि चावाच्यः पुद्गल इति ब्रुवाणैर्भवद्भिः स्फुटतरमेव स्कन्धेभ्यः पुद्गलस्यान्य
त्वमुच्चैरुद्धोषितमिति दर्शयति—विरुद्धधर्मसङ्गो हीत्यादि ।


विरुद्धधर्मसङ्गो हि वस्तूनां भेद उच्यते ।

स्कन्धपुद्गलयोश्चैव विद्यते भिन्नता न किम् ॥ ३४४ ॥

प्रयोगः—यौ परस्परपरिहारस्थितधर्माध्यासितौ तौ परस्परभिन्नौ, यथा रूपवेदने
मूर्त्तत्वामूर्त्तत्वयुक्ते, वाच्यत्वावाच्यत्वादिपरस्परविरुद्धधर्माध्यासितौ च स्कन्धपुद्गला
विति स्वभावहेतुः ॥ ३४४ ॥