अपि चावाच्यः पुद्गल इति ब्रुवाणैर्भवद्भिः स्फुटतरमेव स्कन्धेभ्यः पुद्गलस्यान्य
त्वमुच्चैरुद्धोषितमिति दर्शयति—विरुद्धधर्मसङ्गो हीत्यादि ।


विरुद्धधर्मसङ्गो हि वस्तूनां भेद उच्यते ।

स्कन्धपुद्गलयोश्चैव विद्यते भिन्नता न किम् ॥ ३४४ ॥

प्रयोगः—यौ परस्परपरिहारस्थितधर्माध्यासितौ तौ परस्परभिन्नौ, यथा रूपवेदने
मूर्त्तत्वामूर्त्तत्वयुक्ते, वाच्यत्वावाच्यत्वादिपरस्परविरुद्धधर्माध्यासितौ च स्कन्धपुद्गला
विति स्वभावहेतुः ॥ ३४४ ॥