128

न चायमसिद्धो हेतुरिति दर्शयन्नाह—तथा हीत्यादि ।


तथा हि वेदनादिभ्यः पुद्गलोऽवाच्य उच्यते ।

तत्त्वान्यत्वेन वाच्यास्तु रूपसंज्ञादयस्ततः ॥ ३४५ ॥

तथा हि पुद्गलो वेदनासंज्ञादिभ्यस्तत्त्वान्यत्वाभ्यामवाच्य इष्यते । रूपवेदनाद
यस्तु, ततः—वेदनादिभ्यः, परस्परमन्यत्वेन वाच्या इत्यतो नासिद्धता हेतोः ॥ ३४५ ॥


इतोऽपि विरुद्धधर्माध्यासः सिद्ध इत्यादर्शयति—अनित्यत्वेनेत्यादि ।


अनित्यत्वेन वाच्याश्च रूपस्कन्धादयो मताः ।

पुद्गलस्तु तथा नेति ततो विस्पष्टमन्यता ॥ ३४६ ॥

अनित्याः सर्वसंस्कारा इति वचनाद्रूपादयो ह्यनित्यत्वेन वाच्याः, पुद्गलस्तु तथा
नानित्यत्वेन वाच्य इष्टः सर्वप्रकारेण तस्यावाच्यत्वात् । न चाप्यनैकान्तिकता हेतोः,
एतावन्मात्रनिबन्धनत्वाद्भेदव्यवहारस्य, अन्यथा हि सकलमेव विश्वमेकं वस्तु स्यात्,
ततश्च सहोत्पादविनाशप्रसङ्गः ॥ ३४६ ॥


न केवलं तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तु पुद्गलोऽयमिति प्रतिपादितम्, इतो
ऽप्यनित्यत्वेनावाच्यत्वादेवावस्त्विति प्रतिपादयन्नाह—अर्थक्रियास्वित्यादि ।


अर्थक्रियासु शक्तिश्च विद्यमानत्वलक्षणम् ।

क्षणिकेष्वेव नियता तथाऽवाच्ये न वस्तुता ॥ ३४७ ॥

इदमेव हि विद्यमानत्वलक्षणं वस्तुस्वभावो यदुतार्थक्रियासु शक्तिः, सर्वसामर्थ्य
विरहलक्षणत्वादवस्तुत्वस्येति सामर्थ्यादर्थक्रियासामर्थ्यलक्षणमेव वस्तुत्वमवतिष्ठते । सा
चार्थक्रिया क्षणिकेष्वेव नियता । क्षणिकत्वेनैव व्याप्तेति यावत् । नित्यस्य क्रमयौग
पद्याभ्यामर्थक्रियाविरोधात् । अतस्तथा क्षणिकत्वेनावाच्ये पुद्गले वस्तुता नास्ति ।
तत्र तद्व्यापकस्य क्षणिकत्वस्य निवृत्तेः वृक्षत्वनिवृत्तौ शिंशपात्वादिनिवृत्तिवदिति ।
यथोक्तम्—अनित्यत्वेन योऽवाच्यः स हेतुर्नहि कस्यचिदिति । स्यादेतद्यदि पुद्गलो
नित्यः स्यात्तदा तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः स्यात्, यावता यथाऽसाव
नित्यत्वेनावाच्यः तथा नित्यत्वेनापीति, अतोऽर्थक्रियासामर्थ्यमस्याविरुद्धमेवेति ।
तदसम्यक्, न ह्युभयाकारविनिर्मुक्तं वस्तु स्वलक्षणं युक्तम्, नित्यानित्ययोरन्योन्य
वृत्तिपरिहारस्थितलक्षणत्वात् । वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्याग
नान्तरीयकत्वात् । न ह्यस्माभिरवाच्यशब्दनिवेशनं पुद्गले प्रतिषिध्यते, स्वतंत्रेच्छा