इतोऽपि विरुद्धधर्माध्यासः सिद्ध इत्यादर्शयति—अनित्यत्वेनेत्यादि ।


अनित्यत्वेन वाच्याश्च रूपस्कन्धादयो मताः ।

पुद्गलस्तु तथा नेति ततो विस्पष्टमन्यता ॥ ३४६ ॥

अनित्याः सर्वसंस्कारा इति वचनाद्रूपादयो ह्यनित्यत्वेन वाच्याः, पुद्गलस्तु तथा
नानित्यत्वेन वाच्य इष्टः सर्वप्रकारेण तस्यावाच्यत्वात् । न चाप्यनैकान्तिकता हेतोः,
एतावन्मात्रनिबन्धनत्वाद्भेदव्यवहारस्य, अन्यथा हि सकलमेव विश्वमेकं वस्तु स्यात्,
ततश्च सहोत्पादविनाशप्रसङ्गः ॥ ३४६ ॥