अथ पुद्गलस्यावाच्यत्वे का पुनर्युक्तिरित्याह—स्कन्धेभ्य इत्यादि ।


स्कन्धेभ्यः पुद्गलो नान्यस्तीर्थदृष्टिप्रसङ्गतः ।

नानन्योऽनेकताद्याप्तेः साध्वी तस्मादवाच्यता ॥ ३३७ ॥

126

यदि स्कन्धेभ्योऽन्यः पुद्गलः स्यात्तदानीं तैर्थिकपरिकल्पितात्मदृष्टिर्भवेत्, ततश्च
शाश्वतात्मप्रसङ्गः । न च शाश्वतस्यात्मनः कर्तृत्वभोक्तृत्वादि युक्तम्, आकाशवत्तस्य
सर्वदा निर्विशिष्टत्वात् । प्रतिषिद्धश्च भगवता शाश्वत आत्मा, निरात्मानः सर्वे धर्मा
इति च वचनं व्याहन्येत । अनन्यस्तर्हि भवत्विति चेदाह—नानन्य इत्यादि ।
यदि हि स्कन्धा एव रूपादयः पुद्गलः स्यात्तदा बहुभ्यः स्कन्धेभ्योऽनन्यत्वात्तत्स्व
रूपवदनेकता प्राप्नोति पुद्गलस्य । एकश्चेष्यते । यथोक्तम्— एकः पुद्गलो लोक
उत्पद्यमान उ(त्प)द्यते यद्वत्तथा गत
इति (?) । आदिशब्देनानित्यत्वादिपरिग्रहः ।
एवं च सति उच्छेदित्वं स्कन्धवत्पुद्गलस्यापि स्यात् । ततश्च कृतकर्मविप्रणाशप्रसङ्गः
प्रतिषिद्धश्च भगवतोभवतोच्छेदवाद इत्यतोऽस्त्यवाच्यः पुद्गल इति सिद्धम् ॥ ३३७ ॥