126

यदि स्कन्धेभ्योऽन्यः पुद्गलः स्यात्तदानीं तैर्थिकपरिकल्पितात्मदृष्टिर्भवेत्, ततश्च
शाश्वतात्मप्रसङ्गः । न च शाश्वतस्यात्मनः कर्तृत्वभोक्तृत्वादि युक्तम्, आकाशवत्तस्य
सर्वदा निर्विशिष्टत्वात् । प्रतिषिद्धश्च भगवता शाश्वत आत्मा, निरात्मानः सर्वे धर्मा
इति च वचनं व्याहन्येत । अनन्यस्तर्हि भवत्विति चेदाह—नानन्य इत्यादि ।
यदि हि स्कन्धा एव रूपादयः पुद्गलः स्यात्तदा बहुभ्यः स्कन्धेभ्योऽनन्यत्वात्तत्स्व
रूपवदनेकता प्राप्नोति पुद्गलस्य । एकश्चेष्यते । यथोक्तम्— एकः पुद्गलो लोक
उत्पद्यमान उ(त्प)द्यते यद्वत्तथा गत
इति (?) । आदिशब्देनानित्यत्वादिपरिग्रहः ।
एवं च सति उच्छेदित्वं स्कन्धवत्पुद्गलस्यापि स्यात् । ततश्च कृतकर्मविप्रणाशप्रसङ्गः
प्रतिषिद्धश्च भगवतोभवतोच्छेदवाद इत्यतोऽस्त्यवाच्यः पुद्गल इति सिद्धम् ॥ ३३७ ॥


ते वाच्या इत्यादिना वस्तुवत्पुद्गलो न भवत्यवाच्यत्वादिति स्ववचनादेव भवद्भिः
प्रतिपादितमिति दर्शयति ।


ते वाच्याः पुद्गलो नैव विद्यते पारमार्थिकः ।

तत्त्वान्यत्वादवाच्यत्वान्नभःकोकनदादिवत् ॥ ३३८ ॥

प्रयोगः—यद्वस्तुनः सकाशात्तत्त्वान्यत्वाभ्यां वाच्यं न भवति न तद्वस्तु, यथा
गगननलिनम्, न भवति च वाच्यः पुद्गल इति व्यापकानुपलब्धेः । वैधर्म्येण
वेदनादि ॥ ३३८ ॥


कथं पुनरत्र व्याप्तिः सिद्धेत्याह—अन्यत्वमित्यादि ।


अन्यत्वं वाऽप्यनन्यत्वं वस्तु नैवातिवर्त्तते ।

वस्तुतो यत्तु नीरूपं तदवाच्यं प्रकल्प्यते ॥ ३३९ ॥

वस्तुनो हि सकाशाद्वस्तु नैव तत्त्वान्यत्वे व्यतिक्रामति, गत्यन्तराभावात् । अन्यथा
रूपादीनामपि परस्परतोऽवाच्यत्वं स्यात् । तस्मान्नीरूपमस्वभावमेवावाच्यं प्रकल्प्यते,
न तु वस्तु ॥ ३३९ ॥


कथमित्याह—भेदाभेदविकल्पस्येत्यादि ।


भेदाभेदविकल्पस्य वस्त्वधिष्ठानभावतः ।

तत्त्वान्यत्वाद्यनिर्देशो निःस्वभावेषु युज्यते ॥ ३४० ॥

न वस्तुनि यदेतद्धि तन्नेति प्रतिषेधनम् ।

तद्वस्त्वन्तरवत्तस्माद्व्यक्तमन्यत्वमुच्यते ॥ ३४१ ॥