082
सिद्धपर्यायभिन्नत्वे यच्चैवं परिनिश्चितम् ।

यथानिर्दिष्टधर्मेण तद्युक्तं पटशब्दवत् ॥ १८३ ॥

सिद्धपर्यायभिन्नत्व इति । बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो
भिन्नत्वे सतीत्यर्थः । यच्चैवं परिनिश्चितमिति । सिद्धपर्यायभिन्नत्वे सत्येकपदत्वेन ।
यथानिर्दिष्टधर्मेणेति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२ ॥ १८३ ॥


पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान् । नेदं निरात्मकं जीवच्छ
रीरमप्राणादिमत्त्वप्रसङ्गाद्धटादिवदिति । तद्दर्शयति—प्राणादिभिरित्यादि ।


प्राणादिभिर्वियुक्तश्च जीवद्देहो भवेदयम् ।

नैरात्म्याद्धटवत्तस्मान्नैवास्त्यस्य निरात्मता ॥ १८४ ॥

अस्य निरात्मतेति । जीवद्देहस्य । यद्वा—अस्यात्मनो निरात्मता निःस्वभावता
नास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४ ॥


अथ नित्यत्वविभुत्वे कथमस्य प्रतिपत्तव्ये इत्यत्राविद्धकर्णस्तावत्प्रमाणयति—मातु
रुदरनिष्क्रमणोत्तरकालं मदीयाद्यप्रज्ञानसंवेदकसंवेद्यान्यतत्कालानि मदीयानि प्रज्ञा
नानि मदीयप्रज्ञानत्वात् आद्यमदीयप्रज्ञानवत् । एवं दुःखादयोऽपि पक्षीकर्त्तव्याः ।
एतच्च नित्यत्वेऽनुमानम्, तदेतद्दर्शयति—सद्योजाताद्येत्यादि ।


सद्योजाताद्यविज्ञानवेदकेनैव वेद्यते ।

सर्वमुत्तरविज्ञानं मज्ज्ञानत्वात्तदाद्यवत् ॥ १८५ ॥

तदाद्यवदिति । तस्योत्तरकालभाविनो ज्ञानस्याद्य तदाद्यम् ॥ १८५ ॥


विभुत्वसिद्धये प्रमाणयति । अवनिजलानिलमनांसि विप्रतिपत्तिविषयभावापन्नानि
दूरतरवर्त्तीनि मदीयेनात्मना सह संबध्यन्ते । मूर्त्तत्ववेगवत्त्वपरत्वापरत्वमिथःसंयो
गविभागवत्त्वेभ्यो मदीयशरीरादिवदिति । तद्दर्शयति—मदीयेत्यादिना ।


मदीयेनात्मना युक्तं दूरदेशनिवर्त्त्यपि ।

क्षित्यादिमूर्त्तिमत्त्वादेरस्मदीयशरीरवत् ॥ १८६ ॥

एवमित्यादिनोपसंहरति ।


एवं च सत्त्वनित्यत्वविभुत्वानां विनिश्चये ।

आत्मनो न निरात्मानः सर्वधर्मा इति स्थितम् ॥ १८७ ॥

तदत्रेत्यादिना प्रतिविधत्ते ।