तदत्रेत्यादिना प्रतिविधत्ते ।


083
तदत्र प्रथमे तावत्साधने सिद्धसाध्यता ।

सर्वज्ञादिप्रवेद्यत्वं त्वज्ज्ञानस्येष्यते यतः ॥ १८८ ॥

प्रथमे साधन इति । ज्ञानानि च मदीयानीत्यादौ । तत्र सिद्धसाध्यता भवदीय
प्रत्ययानामस्माभिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येकबुद्धैस्तदन्यैश्च परपरि
चित्तवित्तवेदिभिर्वेदनाभ्युपगमात् ॥ १८८ ॥