083
तदत्र प्रथमे तावत्साधने सिद्धसाध्यता ।

सर्वज्ञादिप्रवेद्यत्वं त्वज्ज्ञानस्येष्यते यतः ॥ १८८ ॥

प्रथमे साधन इति । ज्ञानानि च मदीयानीत्यादौ । तत्र सिद्धसाध्यता भवदीय
प्रत्ययानामस्माभिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येकबुद्धैस्तदन्यैश्च परपरि
चित्तवित्तवेदिभिर्वेदनाभ्युपगमात् ॥ १८८ ॥


यश्चापि पुरुषान्तरप्रत्ययवदिति साधर्म्यदृष्टान्तःस साध्यविकल इति दर्शयन्नाह—
प्रकाशकानपेक्षं चेत्यादि ।


प्रकाशकानपेक्षं च स्वचिद्रूपं प्रजायते ।

अन्यविज्ञानमप्येवं साध्यशून्यं निदर्शनम् ॥ १८९ ॥

यतः पुरुषान्तरीयकमपि ज्ञानं प्रकाशकान्तरानपेक्षं स्वसंविद्रूपमेवोपजायते । तेन
तत्वादिव्यतिरिक्तसंवेदकसंवेद्यत्वेन साध्येन शून्यमिदं निदर्शनम् ॥ १८९ ॥


अथापि स्यान्नान्यदीयं चित्तमात्रमुदाहरणत्वेनाभिप्रेतं किन्तु यस्मिन्विषये विज्ञा
नमागृहीततदाकारमुपजायते तदिहोदाहरणमिष्टमित्याह—तदाकारोपरक्तेनेत्यादि ।


तदाकारोपरक्तेन यदन्येन प्रवेद्यते ।

तस्योदाहरणत्वेऽपि भवेदन्येन संशयः ॥ १९० ॥

एवमपि यत्स्वसंविद्रूपमेव ज्ञानं ज्ञानान्तरसंवेदनरहितमुत्पद्यते तेन संशयो भवे
द(तो) नैकान्तिको हेतुरिति यावत् । अथ तदपि स्वव्यतिरिक्तसंवेदकसंवेद्यमुदयव्यय
धर्मकत्वप्रमेयत्वस्मर्यमाणप्रमाणत्वेभ्यो विषयवदिति मतम् । तदत्रापि साध्यविपर्यये
बाधकाभावाद्व्यतिरेको न निश्चितः । उत्तरोत्तरज्ञानानुभवे चानवस्था । न ह्यव्यक्त
व्यक्तिको विषयः सिद्ध्येत् । ततश्चैकविषयसिद्ध्यर्थं ज्ञानपरम्परामनुसरतः सकलमेव
पुरुषायुषमुपयुज्येत । अथापि किंचिज्ज्ञानमनवस्थाभयात्स्वसंविदितरूपमेवोत्पद्यत
इति । तथा तेनैवोदयव्ययधर्मकत्वादीनां हेतूनामनैकान्तिकता । तद्वदेवान्येषामपि
ज्ञानानां स्वसंवेदनत्वाभ्युपगमे कः प्रद्वेषः । अथ तदसंविदितरूपमेवेष्यते । एवमपि
तदसिद्धौ सर्वेषां पूर्वज्ञानानामप्रसिद्धिरनभिव्यक्तव्यक्तिकत्वात् । ततश्च विषयोऽपि
न प्रसिद्ध्येत् । येषां तु विज्ञानवादिनां मतं सर्वमेव ज्ञानं ग्राह्यग्राहकवैधुर्यात्स्वयमेव
प्रकाशते—न तु ज्ञानान्तरेण वेद्यत इति, तान्प्रति साध्यविकलता दोषोऽकम्प्य एव ।
एवमन्येष्वपि कारणायत्तजन्मवत्त्वादिषु साधनेषु सिद्धसाध्यतादिदोषा वाच्याः ।
यच्चापि सदादीत्यादि धर्मिविशेषणं कृतं तत्पूर्ववदनर्थकं, न ह्यस्य प्रस्तुतसाध्यसिद्धावङ्ग