084 भावोऽस्ति । तथाहि—एतावता किं न गतम्, मदीयाः प्रत्यक्षादिप्रत्यया मदीयशरी
रादिव्यतिरिक्तसंवेदकसंवेद्या इति । प्रत्यक्षानुमानादिप्रविभागेनापि धर्मिप्रभेदोऽनर्थक
एव, मदीयाः प्रत्यया इत्येतावतैव गतत्वात् । न चापि प्रतिवादिनो यथोक्तविशेषण
विशिष्टो धर्मी सिद्ध इत्याश्रयासिद्धता च हेतूनाम् । अथाऽपि विफलं विशेषणमुपा
दाय तत्साधनार्थमन्यदेव साधनमुच्यते । तथा सति प्रकृतादर्थादप्रकृतसंबद्धार्थमर्था
न्तरं निग्रहस्थानं भवेत् ॥ १९० ॥


क्वचित्समाश्रितत्वं च यदीच्छादेः प्रसाध्यते ।

तत्र कारणमात्रं चेदाश्रयः परिकल्प्यते ॥ १९१ ॥

इष्टसिद्धिस्तदाधारस्त्वाश्रयश्चेन्मतस्तव ।

तथाऽपि गतिशून्यस्य निष्फलाऽऽधारकल्पना ॥ १९२ ॥

यच्चोक्तम्—इच्छादयश्चेत्यादि, तत्र यदि कारणमात्रमाश्रय इच्छादीनां साध्यते,
तदा सिद्धसाध्यता, न हि निष्कारणा इच्छादयोऽस्माभिरिष्यन्ते । चतुर्भिश्चित्तचैत्ता
हीति वचनात् । परिकल्प्यत इति । वर्ण्यत इत्यर्थः । अथाधारलक्षण आश्रयः
साध्यते तदाऽपि प्रतिज्ञार्थस्यानुमानबाधितत्वान्न तेन हेतोर्व्याप्तिः सिद्ध्यतीति दर्श
यति—तदाधार इत्यादि । तेषामिच्छादीनामाधारस्तदाधारः । मूर्त्तानां हि भावानां
प्रसर्पणधर्माणां स्यादधःपातप्रतिबन्धादाधारकल्पना । ये तु सुखादयो गतिशून्यास्ते
षामधःपतनासंभवात्किंकुर्वन्नात्मादिराधारः स्यात् ॥ १९१ ॥ १९२ ॥


ननु यथा घटादयो बदरादीनामकिंचित्करा अप्याधारास्तद्वदात्मा सुखादीनामा
धारो भविष्यतीत्याह—आश्रय इत्यादि ।


आश्रयो बदरादीनां कुण्डादिरुपपद्यते ।

गतेर्विबन्धकरणाद्विशेषोत्पादनेन वा ॥ १९३ ॥

गतेर्विबन्धकरणादित्यक्षणिकपक्षे । विशेषोत्पादनेन वेति क्षणिकपक्षे । उपादान
कारणसमानदेशोत्पादनं तत् । अयं द्विविधोऽपि प्रकार इच्छादीनां न संभवतीति न
तेषां कश्चिदाधारो युक्तः ॥ १९३ ॥


यच्चापि वस्तुत्वे सतीति विशेषणं तदनर्थकमेव व्यवच्छेद्याभावादिति दर्शयन्नाह—
नीरूपस्येत्यादि ।


नीरूपस्य च नाशस्य कार्यत्वं नैव युक्तिमत् ।

अतो विशेषणं व्यर्थं हेतावुक्तं परैरिह ॥ १९४ ॥