अविद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनाय प्रमाणमाह—परमाणूनामुत्पादकाभिइमतं
सद्धर्मोपगतं न भवति । सत्त्वप्रतिपादकप्रमाणाविषयत्वात्, खरविषाणवदिति । सतो
विद्यमानस्य धर्मः सद्धर्मोऽस्तित्वं तेनोपगतं प्राप्तमस्तीत्यर्थः । तस्य प्रतिषेधोऽयम् ।
अणूत्पादकं कारणं नास्तीत्यर्थः । तदेतत्प्रमाणमाशङ्कापूर्वमुपदर्शयन्नाह—सद्धर्मोप
गत
मित्यादि ।


सद्धर्मोपगतं नोचेदणूत्पादकमिष्यते ।

विद्यमानोपलम्भार्थप्रमाणाविषयत्वतः ॥ ५५३ ॥

अणूत्पादकं सद्धर्मोपगतं नोचेदिष्यत इति संबन्धः । विद्यमानस्योपलम्भोऽधिगमः
सोऽर्थः प्रयोजनं यस्य प्रमाणस्य तत्तथोक्तं । शेषं सुबोधम् । एतेनाणूनामनित्यत्वप्रति
ज्ञाया अनुमानबाधितत्वमुद्भावितम्, सदकारणवन्नित्यमिति वचनात् । अकारणव
त्त्वेनाणूनां नित्यत्वस्य सिद्धत्वात् ॥ ५५३ ॥