नासिद्धेरित्यादिना हेतोरसिद्धतामाह ।


नासिद्धेर्दृश्यते येन कुविन्दाद्यणुकारणम् ।

परमाण्वात्मका एव येन सर्वे पटादयः ॥ ५५४ ॥

ननु कुविन्दादयः पटादीनामेव कारणत्वेन सिद्धा नाणूनां तत्कथमणुकारणं
कुविन्दादि दृश्यत इत्याह—परमाण्वात्मका इत्यादि । एतच्च पश्चात्प्रतिपादयिष्याम
इति भावः ॥ ५५४ ॥