एवं तावत्कारणद्रव्यं निषिद्ध्य कार्यद्रव्यनिषेधार्थमाह—तदारब्ध इत्यादि ।


तदारब्धस्त्ववयवी गुणावयवभेदवान् ।

नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः ॥ ५५६ ॥

188

गुणा रूपादयः, अवयवास्तन्त्वादयः, तेषां भेदो व्यतिरेकः सोऽस्यास्तीति त
थोक्तः । स तथाभूतो गुणावयवव्यतिरिक्तोऽवयवी नोपलभ्यते । नहि पटादिलक्षण
मवयवि द्रव्यमविकलं शुक्लादिगुणेभ्योऽवयवेभ्यश्च तन्त्वादिभ्योऽर्थान्तरभूतं क्वचिच्च
क्षुरादिज्ञाने च भासते । तदत्र गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भने गुणगुणिवादो
निरस्तः । अवयवव्यतिरिक्तावयव्यनुपलम्भेन त्ववयवावयविवादः । प्रयोगः—यदुपल
ब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते तत्तत्र नास्ति, यथा क्वचित्प्रदेशविशेषे घटादिरनुप
लभ्यमानः, नोपलभ्यते च गुणावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी दृश्यत्वेना
भिमतोऽवयवी चेति स्वभावानुपलब्धेः । न चासिद्धो हेतुः, महत्यनेकद्रव्यवत्त्वाद्रूपा
च्चोपलब्धिरिति वचनात्तयोर्दृश्यत्वेनाभिमतत्वात् ॥ ५५६ ॥