नन्वित्यादिना—उद्योतकरभाविविक्तादयो हेतोरसिद्धतामुद्भावयन्ति ।


ननूपधानसंपर्के दृश्यते स्फटिकोपलः ।

तद्रूपाग्रहणेप्येवं बलाकादिश्च दृश्यते ॥ ५५७ ॥

कञ्चुकान्तरिते पुंसि तद्रूपाद्यगतावपि ।

पुरुषप्रत्ययो दृष्टो रक्ते वाससि वस्त्रधीः ॥ ५५८ ॥

त एवमाहुर्गुणव्यतिरिक्तो गुणी समुपलभ्यत एव । तद्रूपादिगुणाग्रहणेऽपि तस्य
ग्रहणात् । तथाहि स्फटिकोपलः सन्निहितोपधानावस्थायां स्वगतशुक्लगुणानुपलम्भेऽपि
दृश्यत एव । बलाकादिश्च रात्रौ मन्दमन्दप्रकाशायां तद्गतसितादिरूपादर्शनेऽपि
गृह्यत एव । तथाऽऽप्रपदीनकञ्चुकावच्छन्नशरीरे पुंसि तदा श्यामादिरूपाद्यग्रहणेऽपि
पुमान् पुमानिति प्रत्ययः प्रसूयत एव । कषायकुङ्कुमादिरक्ते वाससि तद्रूपस्य संस
र्पिरूपेणाभिभूतस्यानुपलम्भेऽपि वस्त्रधीर्भवत्येव ॥ ५५७ ॥ ५५८ ॥