तदेवं तावत्प्रत्यक्षत एव गुणगुणिनोर्भेदः सिद्ध इति प्रतिपादितम् । इदानीमनु
मानतोऽपि सिद्ध इति प्रतिपादयन्नाह—रूपादीत्यादि ।


रूपादीन्दीवरादिभ्य एकान्तेन विभिद्यते ।

तेन तस्य व्यवच्छेदाच्चैत्रादेश्च तुरङ्गमः ॥ ५५९ ॥

क्षित्यादिरूपगन्धादेरत्यन्तं वा विभिद्यते ।

एकानेकवचोभेदाच्चन्द्रनक्षत्रभेदवत् ॥ ५६० ॥

इन्दीवरादिभ्यो गुणो भिन्न इन्दीवरस्य रूपादय इत्येवं तेनेन्दीवरादिना तस्य
रूपादेर्व्यवच्छेदात् । यथा चैत्रस्य तुरङ्गम इति चैत्रेण स्वाम्यन्तरेभ्यो व्यवच्छिद्य
189 मानस्तुरङ्गमस्ततो भिद्यते तथाऽपरः प्रयोगः । प्रत्येकं पृथिव्यप्तेजोवायवो द्रव्याणि
रूपरसगन्धस्पर्शेभ्यो भिन्नान्येकवचनबहुवचनविषयत्वात्, यथा चन्द्रो नक्षत्राणीति ।
यथैव हि चन्द्र इत्येकवचनं नक्षत्राणीति बहुवचनं चन्द्रनक्षत्राणां भेदनिबन्धनमुप
लभ्यते, तथात्रापि पृथिवीत्येकवचनं रूपरसगन्धस्पर्शा इति बहुवचनं । एवं जला
दिष्वपि योज्यम् । नक्षत्रभेदास्तु पुष्यादयः ॥ ५५९ ॥ ५६० ॥