189 मानस्तुरङ्गमस्ततो भिद्यते तथाऽपरः प्रयोगः । प्रत्येकं पृथिव्यप्तेजोवायवो द्रव्याणि
रूपरसगन्धस्पर्शेभ्यो भिन्नान्येकवचनबहुवचनविषयत्वात्, यथा चन्द्रो नक्षत्राणीति ।
यथैव हि चन्द्र इत्येकवचनं नक्षत्राणीति बहुवचनं चन्द्रनक्षत्राणां भेदनिबन्धनमुप
लभ्यते, तथात्रापि पृथिवीत्येकवचनं रूपरसगन्धस्पर्शा इति बहुवचनं । एवं जला
दिष्वपि योज्यम् । नक्षत्रभेदास्तु पुष्यादयः ॥ ५५९ ॥ ५६० ॥


एवं गुणगुणिनोर्भेदं प्रसाध्यावयवावयविनोर्भेदप्रसाधनायाह—विभिन्नेत्यादि ।


विभिन्नकर्तृशक्त्यादेर्भिन्नौ तन्तुपटौ तथा ।

विरुद्धधर्मयोगेन स्तम्भकुम्भादिभेदवत् ॥ ५६१ ॥

प्रयोगः—ये भिन्नकर्तृकार्यकालपरिमाणास्ते विभिन्नाः यथ स्तम्भकुम्भादयः, वि
भिन्नकर्तृकार्यकालपरिमाणाश्च विचारविषयाः । नासिद्धो हेतुर्नाप्यनैकान्तिकः । वि
रुद्धधर्माध्यासमात्रनिबन्धनो हि भावानां परस्परतो भेदः, यथा स्तम्भादीनां सचा
वयवावयविनोरप्यस्ति । तथाहि—तन्तूनां योषित्कर्न्त्री, पटस्य कुविन्दः, शीतापनो
दादिकार्यसमर्थः पटो न तन्तवः, प्रागपि तन्तूनामुपलब्धेः पूर्वकालभावित्वं, पटस्य
तु पश्चात्कुविन्दादिव्यापारोत्तरकालभावित्वम्, पटस्यायामविस्तराभ्यां यावत्प्रमाणं
न तावत्प्रत्येकं तन्तूनामस्तीति भिन्नपरिमाणत्वमतो नानैकान्तिकता हेतूनामिति
भावः ॥ ५६१ ॥


एवं तावदनुमानतोऽवयवावयविनोर्भेदं प्रसाध्य प्रत्यक्षतोऽपि साधयन्नाह—स्थू
लार्थे
त्यादि ।


स्थूलार्थासंभवे तु स्यान्नैव वृक्षादिदर्शनम् ।

अतीन्द्रियतयाऽणूनां नचाणुवचनं भवेत् ॥ ५६२ ॥

स्थूलवस्तुव्यपेक्षो हि सुसूक्ष्मोऽर्थस्तथोच्यते ।

स्थूलैकवस्त्वभावे तु किमपेक्षास्य सूक्ष्मता ॥ ५६३ ॥

यदि ह्यवयवी न स्यात्सर्वाग्रहणप्रसंगः, परमाणूनामतीन्द्रियत्वात् । स्थूलाभावे
ऽणुरिति व्यपदेश एव न स्यात् । कस्मादित्याह—स्थूलवस्तुव्यपेक्षो हीत्यादि । सुबो
धम् ॥ ५३२ ॥ ५६३ ॥


ननु रक्तादिरूपेण गृह्यन्ते स्फटिकादयः ।

नच तद्रूपता तेषां स्वपक्षक्षयसङ्गतेः ॥ ५६४ ॥