190

नन्वित्यादिना प्रतिविधत्ते—यदुक्तं स्फटिकादयः स्वगतगुणानुपलम्भेऽपि केवलाः
समुपलम्भ्यन्त इति तदसिद्धम् । तज्ज्ञानस्यायथार्थतया भ्रान्तत्वेनाविषयत्वात् । त
थाहि—जपाकुसुमाद्युपधाने रक्तादिरूपेणासन्नेव(न ?) स्फटिक उपलभ्यते । बलाका
दयोऽपि धवलाः सन्तः श्यामरूपा वीक्ष्यन्ते । नच तेषां तात्त्विकी तद्रूपता—रक्ता
दिरूपताऽस्ति । कस्मात् ? स्वपक्षक्षयसंगतेः—यदि हि तेषां तद्रूपता तात्त्विकी स्या
त्तदा तद्रूपाग्रहणेऽपि तेषां ग्रहणमस्तीति योऽयं भवतामनन्तरोदितः पक्षस्तस्य क्षतिः
स्यात् ॥ ५६४ ॥


स्यादेतल्लोहितादिरूपव्यतिरिक्तः स्फटिकादिरप्युपलभ्यत एवेत्याह—तद्रूपेत्यादि ।


तद्रूपव्यतिरिक्तश्च नापरात्मोपलभ्यते ।

नचान्याकारधीवेद्या युक्तास्तेऽतिप्रसङ्गतः ॥ ५६५ ॥

नहि तस्माल्लोहितादिरूपाद्व्यतिरिक्तोऽपरात्मा—स्वभावः स्फटिकादिलक्षणो दृ
श्यते, रक्तादिरूपस्यैवोपलम्भात् । अतद्रूपा अपि स्फटिकादयो रक्तादिरूपेणोपल
भ्यन्त इति चेदाह—नचेत्यादि । आकारवशेन हि प्रतिनियतार्थविषयता ज्ञानस्याव
स्थाप्यते । यदि चान्याकारस्यापि ज्ञानस्यान्यो विषयः स्यात् । एवं सति रूपज्ञान
मपि शब्दादिविषयं स्याद्विशेषाभावात् ॥ ५६५ ॥


किंच भवतु नामान्याकारस्यापि ज्ञानस्यान्यो विषयस्तथापि नेष्टसिद्धिर्भवत इति
दर्शयन्नाह—शुक्लादयस्तथेति ।


शुक्लादयस्तथा वेद्या इत्येवं चापि संभवेत् ।

तस्माद्भ्रान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ॥ ५६६ ॥

तथाहि—शुक्लादय एव तद्व्यतिरिक्तगुणिपदार्थरहितास्तथा रक्तादिरूपेण विद्यन्त
इत्येवमपि संभाव्यते । ततश्च न गुणिसिद्धिः । चकारोऽवधारणे, भिन्नक्रमश्च, शुक्ला
दय इत्यस्यानन्तरं द्रष्टव्यः । भ्रान्तमिदमिति । अयथार्थत्वादिति शेषः ॥ ५६६ ॥


यच्चोक्तं कञ्चुकान्तर्गते पुंसीत्यादि । तदपि न प्रत्यक्षं साभिजल्पत्वादस्फुटाकार
त्वाच्च । किं तर्ह्यानुमानिकमेतज्ज्ञानं रूपादिसंहतिमात्रलक्षणपुरुषविषयमित्यतो नाव
यविसिद्धिरिति दर्शयति—कञ्चुकेत्यादि ।


कञ्चुकान्तर्गते पुंसि न ज्ञानं त्वानुमानिकम् ।

तद्धेतुसन्निवेशस्य कञ्चुकस्योपलम्भनात् ॥ ५६७ ॥