कस्मात्पुनः स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वं न सम्भवतीत्याह—व्य
क्त्यात्मान
इत्यादि ।


व्यक्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः ।

देशकालक्रियाशक्तिप्रतिभासादिभेदतः ॥ ८७३ ॥

तस्मात्सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते ।

नचागृहीतसङ्केतो (बोध्येता)न्य इव ध्वनेः ॥ ८७४ ॥

सावलेयादयो हि व्यक्तिभेदा देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्तमूर्त्तयो नैते
परस्परमन्वाविशन्ति । तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यात् । प्रतिभासा
दीत्यादिशब्देन वर्णसंस्थानावस्थाविशेषादिपरिग्रहः । व्यवहारो न दृश्यत इति । तेन
तत्र समयाभावान्नासिद्धता हेतोरिति भावः । न चाप्यनैकान्तिकत्वमिति दर्शयन्नाह
नचागृहीतेत्यादि । गृहीतः सङ्केतो यत्र स तथा, न गृहीतसङ्केतोऽगृहीतस
ङ्केतः । अन्य इवेति । विजातीयार्थवत् । ध्वनेरिति । शब्दात् । एतदुक्तं भवति ।
यद्यगृहीतसङ्केतमर्थं शब्दः प्रतिपादयेत्तदा गोशब्दोऽप्यश्वं प्रतिपादयेत् । सङ्केतकर
णानर्थक्यं च स्यात् । तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति सिद्धा व्याप्तिः । अ
यमेव चाकृतसमयत्वादिति हेतुराचार्यदिग्नागेन न जातिशब्दो भेदानां वाचक
278 आनन्त्या
दित्यनेन निर्दिष्टः । तथाह्यानन्त्यादित्यनेन समयासम्भव एव दर्शितः । तेन
यदुद्योतकरेणोक्तम्— यदि शब्दान्पक्षयसि, तदाऽनन्त्यादित्यस्य वस्तुधर्मत्वाद्व्य
धिकरणो हेतुः । अथ भेदा एव पक्षीक्रियन्ते, तदा नान्वयी न व्यतिरेकी दृष्टान्तो
ऽस्तीत्यहेतुरानन्त्य
मिति, तत्प्रत्युक्तं भवति । पुनः स एवाह— यस्य निर्विशेषणा
भेदाः शब्दैरभिधीयन्ते, तस्यायं दोषः, अस्माकं तु सत्तादिविशेषणानि द्रव्यगुण
कर्माण्यभिधीयन्ते । तथाहि—यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदा
दिशब्दं प्रयुङ्क्ते । एकमेव च सत्तादिकं सामान्यम्, अतः सामान्योपलक्षितेषु भेदेषु
समयक्रियासम्भवादकारणमानन्त्य
मिति । तदेतदसम्यक्—न हि सत्तादिकं वस्तु
भूतं सामान्यं तेभ्यो भिन्नमभिन्नं वाऽस्तीति प्रसाधितमेतत् । भवतु वा सामान्यं,
तथाऽप्येकस्मिन्भेदेऽनेकसामान्यसम्भवादसाङ्कर्येण सदादिशब्दप्रयोजनं न स्यात् ।
नच शब्देनानुपदर्श्य सत्तादिकं तेन सत्तादिना भेदान्परमुपलक्षयितुं समयकारः श
क्रुयात् । न चाकृतसमयेषु सत्तादिशब्दप्रवृत्तिरस्ति । ततश्चेतरेतराश्रयदेषः स्यात् ।
अथापि स्यात्—स्वयमेव प्रतिपत्ता व्यवहारोपलम्भादन्वयव्यतिरेकाभ्यां सदादि
शब्दैः समयं प्रतिपद्यत इति । तदेतदसम्यक् । न ह्यनन्तरभेदविषयं निःशेषं कश्चि
द्व्यवहारमुपलभते । एकदा सत्तादिमत्सु भेदेष्वसकृद्व्यवहारमुपलभ्यादृष्टेष्वपि तज्जा
तीयेषु ताच्छब्द्यं प्रतिपद्यत इति चेन्न । अदृष्टत्वात् । नह्यदृष्टेष्वतीतानागतभेदभिन्ने
ष्वनन्तेषु भेदेषु समयः सम्भवत्यतिप्रसङ्गात् । विकल्पबुद्ध्या व्याहृत्य तेषु प्रतिपद्यत
एवेति चेत् । एवं तर्हि विकल्पसमारोपितार्थविषय एव शब्दसन्निवेशनं, न परमा
र्थतो भेदेष्विति प्राप्तम् । तथाह्यतीतानागतयोरसत्त्वेनासन्निहितत्वात्तत्र विकल्पबुद्धि
र्भवन्ती निर्विषयैवेति तथा व्याहृतमसदेव । ततश्च तत्र भवन्समयः कथं परमार्थतो
वस्तुभूतो भवेदित्यलं बहुना । सपक्षे भावान्नापि हेतोर्विरुद्धतेति सिद्धं स्वलक्षणावि
षयत्वं शब्दानाम् ॥ ८७३ ॥ ८७४ ॥