279

आदिशब्देन मलयादिपरिग्रहः । एते ह्यनेकाणुप्रचयस्वभावाः, अतो नैषामशेषा
वयवपरिग्रहेण समयः समस्ति । प्रसाधितोदयानन्तरविनाशाश्च । तेनैतेष्वपि सम
यकालपरिदृष्टस्य स्वभावस्य न व्यवहारकालेष्वन्वयोऽस्तीति नासिद्धता हेतोः ॥ ८७५ ॥


एवं तावत्स्वलक्षणे व्यवहारानुपपत्तेः समयवैयर्थ्यप्रसङ्गान्न समय सम्भवतीति
प्रतिपादितम् । साम्प्रतमशक्यक्रियत्वादेव न सम्भवतीति प्रतिपादयन्नाह—अशक्य
मित्यादि ।


अशक्यं समय(स्यास्य जातेऽजाते च कल्पनम् ।)

नाजाते समयो युक्तो भाविकोऽश्वविषाणवत् ॥ ८७६ ॥

उप(नापि?)जाते गृहीता(नां पूर्वं) वाचामनुस्मृतौ ।

क्रियते समयस्तत्र चिरातीते(कथं नु तत्) ॥ ८७७ ॥

सर्व एव भावाः पूर्वं प्रसाधितोदयानन्तरापवर्गास्तेषु समयः क्रियमाणः कदाचि
दनुत्पन्नेषु वा क्रियेत, उत्पन्नेषु वा । तत्र न तावदनुत्पन्नेषु परमार्थेन समयो युक्तः,
असतः सर्वोपाख्याविरहलक्षणत्वेनाधारत्वानुपपत्तेः । भाविकग्रहणं सांवृतनिषेधा
र्थम् । तेनाजातेऽपि पुत्रादौ समयदर्शनान्न दृष्टविरोधः, तस्य विकल्पनिर्मितार्थविष
यत्वेनाभाविकत्वात् । अश्वविषाणवदिति । सप्तम्यन्ताद्वतिः । नाप्युत्पन्ने समयो
युक्तः, तथाहि—तस्मिन्ननुभवोत्पत्तौ सत्यां तत्पूर्वके च नामभेदस्मरणे सति समयः
कार्यो नान्यथाऽतिप्रसङ्गात् । ततश्च नामभेदस्मरणकाले क्षणध्वंसितया चिरनिरुद्धं
स्वलक्षणमिति, नाजातवज्जातेऽपि भाविकः समयः समस्ति, समयक्रियाकाले द्वयो
रप्यसन्निहितत्वात् । तथाह्यनुभवावस्थायामपि तावत्तत्कारणतया स्वलक्षणं क्षणिकं न
सन्निहितसत्ताकं भवति । किं पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले
भविष्यति ॥ ८७६ ॥ ८७७ ॥


अथापि स्यात्तज्जातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समयः
करिष्यत इति, अत आह—यश्चापीत्यादि ।


यश्चापि (तत्सजातीयस्तद्ब)लेन तदापरः ।

न तत्र समयाभोगः सादृश्यं च विकल्पितम् ॥ ८७८ ॥

यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति, तथापि तत्र समयाभोगासम्भ
वान्न समयो युक्तः, न ह्यश्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्वाणस्तत्काल