मेयबोधादिके शक्तिस्तेषां स्वाभाविकी स्थिता ।

नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥ २८१३ ॥

यदि ज्ञानं प्रमाणं तदा तस्य मेयबोधे—प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः,
अर्थपरिच्छेदकत्वाज्ज्ञानस्य । अथ चक्षुरादीनि तदा तेषां यथार्थज्ञानजनने, चोदनाया
अतीन्द्रियार्थाधिइगमे स्वत एव शक्तिरित्येतदादिशब्देन संगृहीतम् । अत्रैव तावत्पर
उपपत्तिमाह—नहीत्यादि ॥ २८१३ ॥