809
इति यस्य हि संरब्धाः सन्ति रन्ध्रगवेषिणः ।

कथं न नाम निर्दोषं स पठेद्वेदमादृतः ॥ ३११० ॥

शुद्धाश्चेदभ्युदासीनाः स्युर्वेदाध्यायिनो नराः ।

आचक्षीरन्परैरेवं न ते वेदं विनाशितम् ॥ ३१११ ॥

ततः कालेन महता तूपेक्षितविनाशितः ।

अन्य एव भवेद्वेदः प्रतिकञ्चुकतां गतः ॥ ३११२ ॥

रागद्वेषादियुक्तांश्च रुन्धद्भिर्वेदनाशिनः ।

सर्वदा रक्षितो वेदः स्वरूपं न प्रहास्यति ॥ ३११३ ॥

कस्याध्येतुः किं स्मृतिमेवाति (मेधादि?) दुर्बलम्, को वा कुतोऽधीतवान्, को
वा स्वरस्योदात्तादेः क्षामतामन्यथात्वं कुर्वीत, अपदमेव वा कः पदत्वेन भित्त्वा
पठेदित्येवं यस्य वेदपाठकस्य रन्ध्रं निरूपयन्तो वेदाध्यायिनो नराः संरब्धाः समा
रब्धवीर्याः सन्ति, स कथं वेदपाठको वेदमादरान्न पठेत् । ततश्चास्य वेदस्याप्रामा
ण्याशङ्काया अभावात्किमिति निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यभिप्रायः ।
तथाहि—यदि वेदाध्यायिनः शुद्धधियोऽपि परैर्विनाश्यमानान्वेदानौदासीन्यमा
लम्बमाना नाचक्षीरंस्तदा सम्भाव्यतेऽन्य एवायं वेदः प्रतिच्छायतां यात इति ।
यावता तैर्विशुद्धधीभिर्वेदविनाशिनो नरान्रागादिपरीतचेतसो रुन्धद्भिर्निवारयद्भिः
सदैवायं संरक्षितो वेद इति स कथमात्मस्वरूपं जह्यात् ॥ ३१०८ ॥ ३१०९ ॥
॥ ३११० ॥ ३१११ ॥ ३११२ ॥ ३११३ ॥


स्यादेतद्यद्यपि सर्वदा रक्षितस्तैर्वेदस्तथापि महाप्रलये समुच्छिन्नस्यास्य पश्चाद
न्यथात्वमपि सम्भाव्यत इत्याशङ्क्याह—इष्यत इत्यादि ।


इष्यते च जगत्सर्वं न कदाचिदनीदृशम् ।

न महाप्रलयो नाम ज्ञायते पारमार्थिकः ॥ ३११४ ॥

नैतदेवमित्यादिना प्रतिविधत्ते ।


नैतदेवं भवेन्नाम ह्येवं पाठस्य तुल्यता ।

तदर्थतत्त्वबोधस्तु न विनाऽत्यक्षदर्शनम् ॥ ३११५ ॥

एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम् । नत्वथवि(र्थाधि?)गमो
पायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव ॥ ३११५ ॥