810

नचापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत
इति दर्शयति—सर्वे चेत्यादि ।


सर्वे च यस्य पुरुषा देशकालौ तथाऽखिलौ ।

करामलकवद्व्यक्तं वर्त्तन्तेऽध्यक्षचेतसि ॥ ३११६ ॥

स पाठस्यापि तुल्यत्वं बोद्धुं शक्तोऽन्यथा पुनः ।

देशकालनरावस्थाभेदेन विमतिः कथम् ॥ ३११७ ॥

अत्रैवोपपत्तिमाह—अन्यथेत्यादि । यदि पाठस्य तुल्यत्वं भवेत्तदा क्वचिद्दे
शादौ पाठं प्रति पुंसां विमतिः—संशयो न प्राप्नोति ॥ ३११६ ॥ ३११७ ॥


इष्यते च जगत्सर्वमित्यादावाह—जगत्सदेदृशमित्यादि ।


जगत्सदेदृशं चेति न प्रमाणमिहापि वः ।

न युक्ताऽदृष्टिमात्रेण संवर्त्तस्यापि नास्तिता ॥ ३११८ ॥

ईदृशमेव सर्वदा जगदित्यत्र न किंचित्साधकं प्रमाणमस्ति । यश्च बौद्धैः संवर्त्त
कल्पो नर(नाश?)कासम्भवात्प्रतिभाजनक्षय इति वर्ण्यते । यच्च स्मृतिकारैरुच्यते—
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यअप्रवर्त्त्यमविज्ञेयं सुषुप्तमिव सर्वतः ॥ इति
तदेतदस्य द्विविधस्यापि संवर्त्तस्य न किञ्चिद्बाधकं प्रमाणमस्ति, येन सर्वदा जगदी
दृशमेव सिद्ध्येत् । नचादर्शनमात्रेण वस्तूनां नास्तिता सिद्ध्यति, सत्यपि वस्तुनि
क्वचिददर्शनात्, वस्त्वभावेन दर्शनमात्रस्य व्याप्त्यसिद्धेः ॥ ३११८ ॥


किंच—वेदस्य स्वतःप्रामाण्यान्नित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः संमोहाभा
वात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्, उभयथापि न विनाशः
सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद्दर्शयति
स्वत इत्यादि ।


स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्वतः ।

वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः ॥ ३११९ ॥

अतश्चाज्ञानसंदेहविपर्यासापदे स्थिते ।

नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन ॥ ३१२० ॥

यथाचाज्ञातमूलस्य न विनाशोऽपि सम्भवी ।

को वा विनाशो नित्यस्य भवेद्वज्रातिशायिनः ॥ ३१२१ ॥