813 यते—इन्द्रियादिस्वरूपमेवान्यनिरपेक्षं व्यभिचारिज्ञानोत्पादकं, गुणसमवधाने तु
सामग्र्यन्तरमर्थाविसंवादिज्ञानोत्पादकमिति । सत्यमेवमेतत्, अन्वयव्यतिरेकाभ्यां
तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टमिति प्रत्यक्षेऽपि च
सम्भवात्तदेवोत्पादकं कल्प्यते । विपर्ययज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्य
मानं सामग्र्यन्तरं कल्पयतीत्यनवद्यमिति । तदेतत्सर्वं नानवद्यम् । तथाहि—
यत्तावदुक्तमर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यं तच्चात्मीयादेव हेतोस्तस्योपजायत
इति, अत्र सिद्धसाध्यता, यत इष्यत एवास्माभिः प्रमाणमविसंवादिविज्ञानमिति
वचनादर्थाविसंवादित्वं ज्ञानस्य प्रामाण्यम्, किन्तु ज्ञानमिति विशेषेणोपादानाद्धू
मादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसि
द्धम् । ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात् । तथाहि—सत्यप्यविनाभा
विनि धूमादौ न तावत्पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति, तस्मा
त्प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम् । यदाह— धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि
इति, यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्ति
लक्षणं तत्त्वर्थप्रापणमेव, प्रतिबन्धादिसंभवात् । शक्तिश्च पदार्थानामात्मभूतैवेति
कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्येन सा निषिध्येत । नहि तन्निष्पत्तावनिष्पन्नो
धर्मस्तत्स्वभावो युक्तोऽतिप्रसङ्गात् । सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिका
रणसद्भावादनधिगततत्कार्यैरवमातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात्कार्यं
निश्चीयते । अतो निश्चयापेक्षया परतःप्रामाण्यमित्युच्यते नोत्पत्त्यपेक्षया । तेन
कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यं विवादाभावात् । निश्चयस्तु शक्तीनां परतो भव
द्भिरपीष्यत एव । यथोक्तम्— शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः इति ।
यश्च— नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यत इत्येष सामग्र्यन्तराद्भावनिषेधाय
हेतुरुपवर्ण्यतेऽसावप्रमाणेऽपि समान इति तदपि स्वत एव प्रसज्येत । नवा स
हेतुर्व्यभिचारात् । यच्चोक्तम् । नहि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः
प्रतीतः सम्भवतीति, एतदप्यन्वयवचनमनुन्मीलितार्थं न ज्ञायते । कोऽयं विधि
मुखेन व्यापारो नामेति । यदि तावदिदं चेदं करिष्यामीति कार्योत्पादाय बुद्धिपूर्वा
प्रवृत्तिः, सा नेन्द्रियादिष्वपि संभवति । नहि भावानां प्रेक्षापूर्वकारिताऽस्ति, सर्व
भावानां क्षणिकत्वेन समीहाव्यापारयोरसम्भवात् । ततश्चेन्द्रियादेरपि विधिमुखेन
व्यापारासम्भवात्कारणत्वं न स्यात् । अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमा