817 यथा गगननलिनम्, अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभाव
हेतुः । व्यवहारयोग्यतायाः साध्यत्वात् । अभावस्त्वभावप्रमाणत एव सिद्धः
॥ ३१२५ ॥ ३१२६ ॥ ३१२७ ॥


ननु चैतावदेव सर्वं प्रमेयं वस्तु, यदुत पञ्चविषया रूपादयः, तांश्च जानन्तो
नरा लोकेऽतिप्रतीता एवेति । ततश्च प्रतीतिबाधा प्रतिज्ञाया इत्येतदाशङ्क्याह—
धर्मज्ञत्वनिषेध इत्यादि ।


धर्मज्ञत्वनिषेधश्चेत्केवलोऽत्रोपयुज्यते ।

सर्वमन्यद्विजानानः पुरुषः केन वार्यते ॥ ३१२८ ॥

अत्र हि वेदप्रामाण्यसिद्धौ धर्मात्मविश्वपरिज्ञातृत्वनिषेधमात्रं विवक्षितम्, नतु
सर्वशब्दाभिधेयमात्रपरिज्ञातृत्वनिषेधः, तेन धर्माधर्मव्यतिरिक्ताशेषपदार्थपरिज्ञाना
पेक्षया यः कस्मिंश्चित्पुंसि सर्वज्ञव्यवहारो लोकस्य सम्भवति न तस्य प्रतिषेधोऽ
स्माभिः क्रियते, अतो न प्रतीतिबाधा सम्भवतीति भावः ॥ ३१२८ ॥


किंच—यदि भवद्भिरपि बौद्धैर्धर्माधर्मज्ञव्यतिरेकेणान्यस्मिन्पुंसि सर्वज्ञत्वं प्रस
ज्यते तदा सिद्धसाध्यतेति दर्शयन्नाह—सर्वशब्दश्चेत्यादि ।


सर्वशब्दश्च सर्वत्र प्रकृतापेक्ष इष्यते ।

ततः प्रकृतसर्वज्ञे सति किं नोऽवहीयते ॥ ३१२९ ॥

किंच तत्प्रकृतं(?) सर्वमित्युच्यत इति दर्शयति—अर्थे चेत्यादि ।


अर्थे चासम्भवात्कार्यं किंचिच्छब्देऽपि कल्प्यते ।

तत्र यः सर्वशब्दज्ञः स सर्वज्ञोऽस्तु नामतः ॥ ३१३० ॥

यथाहि—व्याकरणेऽग्निर्दृगित्यादिना लक्षणेन प्रत्ययागमादि कार्यं विधीयमान
मर्थे न सम्भवतीति सामर्थ्यादर्थवाचिनि शब्देऽवगम्यत इति वैयाकरणैर्वर्ण्यते तद्व
द्यदि भवद्भिरपि सर्वस्य केनचित्परिज्ञातुमशक्यत्वादिति कृत्वा स (स्व ?)सिद्धा
न्तपरिपठितस्य सर्वज्ञशब्दस्य यत्सर्वपदं तस्य स्वरूपप्रधानतामाश्रित्य सर्वशब्दं यो
वेत्ति स सर्वज्ञ इत्येवं वर्ण्यते, तदास्तु—भवतु, नामतः—संज्ञामात्रात्, नहि
यथेष्टं नाम कुर्वाणस्य कस्यचित्क्वचित्प्रतिरोद्धा स्वतन्त्रेच्छामात्रप्रभवत्वान्नान्न इति
भावः ॥ ३१३० ॥


अथापि प्रकृतं किञ्चित्तैलोदकघृतादिव (य ?)त् ।

तेन सर्वेण सर्वज्ञस्तथाऽप्यस्तु न वार्यते ॥ ३१३१ ॥