818

अथापि धर्माधर्माभ्यां यदन्यत्तैलोदकघृतादि सर्वत्वेन विवक्षितम्, तेन सर्वेण
विषयीकृतेन सता सर्वज्ञ इतीष्यते तथापि सिद्धसाध्यता ॥ ३१३१ ॥


किञ्च—सामान्याकारतः विश्वस्य जगतः सङ्क्षेपपरिज्ञानाद्वा सर्वज्ञ इष्टः, आहो
स्विद्विशेषाकारेण विस्तरपरिज्ञानात्, तत्राद्ये पक्षे सिद्धसाध्यतेति दर्शयति—भावा
भावे
त्यादि ।


भावाभावस्वरूपं वा जगत्सर्वं यदोच्यते ।

तत्संक्षेपेण सर्वज्ञः पुरुषः केन नेष्यते ॥ ३१३२ ॥

एवं ज्ञेयप्रमेयत्वसंक्षेपेणापि सर्वताम् ।

आश्रित्य यदि सर्वज्ञः कस्तं वारयितुं क्षमः ॥ ३१३३ ॥

सर्वमेव हि जगदितरेतराभावादिस्वभावत्वादभावस्वभावं, विधिरूपतया व्यव
स्थितत्वात् भावस्वभावमिति यदेतदस्माभिर्भावाभावस्वभावत्वं सर्वजगद्व्यपी सामा
न्यधर्मो वर्णितः, तेन रूपेण सर्वजगत्परिज्ञानाद्यदि सर्वज्ञः प्रसाध्यते, तथापीष्ट
मेव, न ह्येतावता धर्मज्ञत्वं प्रसिद्ध्यति कस्यचित् । तत्सङ्क्षेपेणेति । तदेव भावा
भावरूपत्वं जगतः सङ्क्षेपः, सङ्क्षिप्यतेऽनेनेति कृत्वा । एवं प्रमेयत्वादिभिः सामा
न्यधर्मैः परिज्ञानेऽपि सिद्धसाध्यता ॥ ३१३२ ॥ ३१३३ ॥


पदार्था यैश्च यावन्तः सर्वत्वेनावधारिताः ।

तज्ज्ञत्वेनापि सर्वज्ञाः सर्वे तद्ग्रन्थवेदिनः ॥ ३१३४ ॥

अथापि स्याद्यैः स्वस्मिन्स्वस्मिन् शास्त्रे यावन्तः पदार्थाः सर्वत्वेनावधार्य नि
र्दिष्टाः—यथा बौद्धैः पञ्च स्कन्धाः वैशेषिकैः षट् पदार्थाः, नैयायिकैः प्रमाणप्रमे
यादयः षोडश, साङ्ख्यैः प्रकृतिमहदादयः पञ्चविंशतिरित्येवमादि, तत्परिज्ञानात्स
र्ववित्प्रसाध्यत इति । एवं सत्यतिप्रसङ्गः, तद्ग्रन्थार्थवेदिनोऽन्ये येऽध्येतारः ते
सर्वज्ञाः प्राप्नुवन्ति ॥ ३१३४ ॥


तथा षड्भिः प्रमाणैर्यः षट्प्रमेयविवेकवान् ।

सोऽपि संक्षिप्तसर्वज्ञः कस्य नाम न संमतः ॥ ३१३५ ॥

अथापि स्याद्यो हि प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाख्यैः षड्भिः प्रमाणैर्यथा
स्वमेषां विषयषटं विवेकेन परिजानाति स सर्वज्ञ इति, अत्रापि सिद्धसाध्यता ।
तथाहि—प्रत्यक्षं रूपादिविषयपञ्चकनियतत्वान्न धर्माधर्मविषयम् । अनुमानमपि प्रत्य