द्वितीयहेतुसमर्थनार्थमाह—कस्माच्चेत्यादि—


कस्माच्च नियतान्येव शालिबीजादिभेदतः ।

उपादानानि गृह्णन्ति तुल्येऽसत्त्वेतुल्यसत्वेऽपरं न तु ॥ ९ ॥

019

यदि त्वसद्भवेत्कार्यं तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । तथाहि—
शालिफलार्थिनः शालिबीजमेवोपाददते न कोद्रवबीजम् । तथा श्वो मे ब्राह्मणा भो
क्तार इति दध्यर्थिनः क्षीरमुपाददते न सलिलम् । तत्र यथा शालिबीजादिषु शा
ल्यादीनामसत्वं तथा कोद्रवबीजादिष्वपीति, तत्किमिति तुल्येऽपि सर्वत्र शालिफला
दीनामसत्वे प्रतिनियतान्येव शालिबीजादीन्युपादीयन्ते । यावता कोद्रवादयोऽपि शा
लिफलार्थिभिरुपादीयेरन्, असत्वाविशेषात् । अथ तत्फलशून्यत्वात्तैस्तैर्नोपादीयन्ते ।
यद्येवं शालिबीजमपि शालिफलार्थिना नोपादेयं स्यात्तत्फलशून्यत्वात् । कोद्रवबीज
वत् न चैवं भवति । तस्मात्तत्र तत्कार्यमस्तीति गम्यते ॥ ९ ॥