तृतीयहेतुसमर्थनार्थमाह—सर्वं चेत्यादि—


सर्वं च सर्वतो भावाद्भवेदुत्पत्तिधर्मकं ।

तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः ॥ १० ॥

यदि चासदेव कार्यमुत्पद्यत इति भवतां मतम्, तस्मात्सर्वस्मात्पदार्थात्तृणपां
सुलोष्टादिकात्सर्वं सुवर्णरजतादि कार्यमुत्पद्येत । कस्मात् ? तादात्म्यविगमस्य सर्वस्मि
न्नविशिष्टत्वात् । विवक्षिततृणादिभावात्मताविरहस्य सर्वस्मिन्नुत्पत्तिमति भावे निर्वि
शिष्टत्वादित्यर्थः । पूर्वं कारणमुखेन प्रसङ्ग उक्तः, सम्प्रति तु कार्यद्वारेणेति विशेषः ।
न च सर्वं सर्वतो भवति । तस्मादयं नियमस्तत्रैव तस्य संभवादिति गम्यते ॥ १० ॥