स्यादेतत्कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः, तेन कार्यस्यास
त्वेऽपि किंचिदेव कार्यं क्रियते न गगनाम्भोरुहम्, किंचिदेवोपादानमुपादीयते । य
देव समर्थम्, नतु यत्किंचित्, किंचिदेव तु कुतश्चिद्भवति नतु सर्वं सर्वत इत्येतच्चोद्य
मुत्थाप्योत्तराभिधानव्याजेन चतुर्थहेतुसमर्थनार्थमाह—शक्तीनामित्यादि ।


शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरं ।

शक्यमेव यतः कार्यं शक्ताः कुर्वन्ति हेतवः ॥ ११ ॥

एषामिति । कारणाभिमतानां भावानाम् । नैवमिति । यथोक्तं दूषणं न भवती
त्यर्थः । तदेतदनुत्तरं बौद्धादेः । कस्मात् ? यस्माच्छक्ता अपि हेतवः कार्यं कुर्वाणाः
शक्यक्रियमेव कुर्वन्ति, नाशक्यम् ॥ ११ ॥